द्विविधः किल संयमस्य छेदः, बहिरङ्गोऽन्तरङ्गश्च । तत्र कायचेष्टामात्राधिकृतो बहिरङ्गः, उपयोगाधिकृतः पुनरन्तरङ्गः । तत्र यदि सम्यगुपयुक्तस्य श्रमणस्य प्रयत्नसमार- ब्धायाः कायचेष्टायाः कथञ्चिद्बहिरङ्गच्छेदो जायते तदा तस्य सर्वथान्तरङ्गच्छेदवर्जितत्वादा- लोचनपूर्विकया क्रिययैव प्रतीकारः । यदा तु स एवोपयोगाधिकृतच्छेदत्वेन साक्षाच्छेद एवोपयुक्तो भवति तदा जिनोदितव्यवहारविधिविदग्धश्रमणाश्रययालोचनपूर्वकतदुपदिष्टानुष्ठानेन प्रतिसन्धानम् ।।२११।२१२।। स्थानादिप्रारब्धायाम् । तस्स पुणो आलोयणपुव्विया किरिया तस्य पुनरालोचनपूर्विका क्रिया । तदाकाले तस्य तपोधनस्य स्वस्थभावस्य बहिरङ्गसहकारिकारणभूता प्रतिक्रमणलक्षणालोचनपूर्विका पुनः क्रियैव प्रायश्चित्तं प्रतिकारो भवति, न चाधिकम् । कस्मादिति चेत् । अभ्यन्तरे स्वस्थभावचलनाभावादिति प्रथमगाथा गता । छेदपउत्तो समणो छेदे प्रयुक्तः श्रमणो, निर्विकारस्वसंवित्तिभावनाच्युतिलक्षणच्छेदेन यदि चेत् प्रयुक्तः सहितः श्रमणो भवति । समणं ववहारिणं जिणमदम्हि श्रमणं व्यवहारिणं जिनमते, तदा जिनमते व्यवहारज्ञं प्रायश्चित्तकुशलं श्रमणं आसेज्ज आसाद्य प्राप्य, न केवलमासाद्य आलोचित्ता निःप्रपञ्चभावेनालोच्य दोषनिवेदनं कृत्वा । उवदिट्ठं तेण कायव्वं उपदिष्टं तेन कर्तव्यम् । तेन प्रायश्चित्त- परिज्ञानसहिताचार्येण निर्विकारस्वसंवित्तिभावनानुकूलं यदुपदिष्टं प्रायश्चित्तं तत्कर्तव्यमिति सूत्र- तात्पर्यम् ।।२११।२१२।। एवं गुरुव्यवस्थाकथनरूपेण प्रथमगाथा, तथैव प्रायश्चित्तकथनार्थं गाथाद्वय- तेणे तो [आलोचनपूर्विका क्रिया] *आलोचनपूर्वक क्रिया करवी जोईए.
[श्रमणः छेदोपयुक्तः] (परंतु) जो श्रमण छेदमां उपयुक्त थयो होय तो तेणे [जिनमते] जिनमतने विषे [व्यवहारिणं] व्यवहारकुशळ [श्रमणम् आसाद्य] श्रमण पासे जईने, [आलोच्य] *आलोचन करीने (-पोताना दोषनुं निवेदन करीने), [तेन उपदिष्टं] तेओ जे उपदेशे ते [कर्तव्यम्] करवुं जोईए.
टीकाः — संयमनो छेद बे प्रकारनो छेः बहिरंग अने अंतरंग. तेमां, मात्र कायचेष्टासंबंधी ते बहिरंग छे अने उपयोगसंबंधी ते अंतरंग छे. त्यां, जो १सम्यक् उपयुक्त श्रमणने प्रयत्नकृत कायचेष्टानो कथंचित् बहिरंग छेद थाय छे, तो ते सर्वथा अंतरंग छेदथी रहित होवाने लीधे आलोचनपूर्वक क्रियाथी ज तेनो प्रतीकार (इलाज) थाय छे. परंतु जो ते ज श्रमण उपयोगसंबंधी छेद थवाने लीधे साक्षात् छेदमां ज उपयुक्त थाय छे, तो जिनोक्त व्यवहारविधिमां कुशळ श्रमणना आश्रये, आलोचनपूर्वक, तेमणे उपदेशेला अनुष्ठान वडे (संयमनुं) प्रतिसंधान थाय छे. *आलोचन = (१) सूक्ष्मताथी जोई जवुं ते; बारीकाईथी विचारवुं ते; बराबर ख्यालमां लेवुं ते. (२) निवेदन; कथन. [२११मी गाथामां ‘आलोचन’नो पहेलो अर्थ घटे छे अने २१२मी गाथामां बीजो अर्थ घटे छे.] १. सम्यक् = योग्य रीते; बराबर.