यथा हि कायव्यापारपूर्वकस्य परप्राणव्यपरोपस्याशुद्धोपयोगसद्भावासद्भावाभ्याम- नैकान्तिकबन्धत्वेन छेदत्वमनैकान्तिकमिष्टं, न खलु तथोपधेः, तस्य सर्वथा तदविनाभावित्व- प्रसिद्धयदैकान्तिकाशुद्धोपयोगसद्भावस्यैकान्तिकबन्धत्वेन छेदत्वमैकान्तिकमेव । अत एव भगवन्तोऽर्हन्तः परमाः श्रमणाः स्वयमेव प्रागेव सर्वमेवोपधिं प्रतिषिद्धवन्तः । अत एव चापरैरप्यन्तरङ्गच्छेदवत्तदनान्तरीयकत्वात्प्रागेव सर्व एवोपधिः प्रतिषेध्यः ।।२१९।। भवति, न भवति वा, परिग्रहे सति नियमेन भवतीति प्रतिपादयति — हवदि व ण हवदि बंधो भवति वा न भवति बन्धः । कस्मिन्सति । मदम्हि जीवे मृते सत्यन्यजीवे । अध अहो । कस्यां सत्याम् । कायचेट्ठम्हि कायचेष्टायाम् । तर्हि कथं बन्धो भवति । बंधो धुवमुवधीदो बन्धो भवति ध्रुवं निश्चितम् । कस्मात् । उपधेः परिग्रहात्सकाशात् । इदि इति हेतोः समणा छड्डिया सव्वं श्रमणा महाश्रमणाः सर्वज्ञाः पूर्वं दीक्षाकाले शुद्धबुद्धैकस्वभावं निजात्मानमेव परिग्रहं कृत्वा, शेषं समस्तं बाह्याभ्यन्तरपरिग्रहं छर्दितवन्तस्त्यक्तवन्तः । एवं ज्ञात्वा शेषतपोधनैरपि निजपरमात्मपरिग्रहं स्वीकारं कृत्वा, शेषः सर्वोऽपि परिग्रहो मनोवचनकायैः कृतकारितानुमतैश्च त्यजनीय इति । अत्रेदमुक्तं भवति – शुद्धचैतन्यरूपनिश्चय- प्राणे रागादिपरिणामरूपनिश्चयहिंसया पातिते सति नियमेन बन्धो भवति । परजीवघाते पुनर्भवति वा
अन्वयार्थः — [अथ] हवे (उपधि विषे एम छे के), [कायचेष्टायाम्] कायचेष्टापूर्वक [जीवे मृते] जीव मरतां [बन्धः] बंध [भवति] थाय छे [वा] अथवा [न भवति] नथी थतो; [उपधेः] (पण) उपधिथी – परिग्रहथी (ध्रुवम् बन्धः) नक्की बंध थाय छे; [इति] तेथी [श्रमणाः] श्रमणोए (अर्हंतदेवोए) [सर्वं] सर्व परिग्रहने [त्यक्तवन्तः] छोड्यो छे.
टीकाः — जेम कायव्यापारपूर्वक परप्राणव्यपरोप अशुद्धोपयोगना सद्भाव अने असद्भाव वडे अनैकांतिक बंधरूप होवाथी तेने (कायव्यापारपूर्वक परप्राणव्यपरोपने) छेदपणुं १अनैकांतिक मानवामां आव्युं छे, तेम उपधिनुं – परिग्रहनुं नथी; परिग्रह सर्वथा अशुद्धोपयोग विना होतो नथी एवुं जे परिग्रहनुं सर्वथा अशुद्धोपयोग साथे अविनाभावीपणुं तेनाथी प्रसिद्ध थता एकांतिक अशुद्धोपयोगना सद्भावने लीधे परिग्रह तो एकांतिक बंधरूप छे, माटे तेने (-परिग्रहने) छेदपणुं २एकांतिक ज छे. तेथी ज भगवंत अर्हंतोए — परम श्रमणोए — पोते ज प्रथम ज बधाय परिग्रहने छोड्यो छे; अने तेथी ज बीजाओए पण, अंतरंग छेदनी माफक, प्रथम ज बधोय परिग्रह छोडवायोग्य छे, कारण के ते (परिग्रह) अंतरंग छेद विना होतो नथी.
४०२प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. अनैकांतिक = अनिश्चित; नियमरूप न होय एवुं; एकांतिक न होय एवुं.
२. एकांतिक = निश्चित; नियमरूप; अवश्य होनार.