Pravachansar-Gujarati (Devanagari transliteration). Gatha: 238.

< Previous Page   Next Page >


Page 442 of 513
PDF/HTML Page 473 of 544

 

असंयतस्य च यथोदितात्मतत्त्वप्रतीतिरूपं श्रद्धानं यथोदितात्मतत्त्वानुभूतिरूपं ज्ञानं वा किं कुर्यात् ततः संयमशून्यात् श्रद्धानात् ज्ञानाद्वा नास्ति सिद्धिः अत आगमज्ञानतत्त्वार्थ- श्रद्धानसंयतत्वानामयौगपद्यस्य मोक्षमार्गत्वं विघटेतैव ।।२३७।।

अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां यौगपद्येऽप्यात्मज्ञानस्य मोक्षमार्गसाधकतमत्वं द्योतयति जं अण्णाणी कम्मं खवेदि भवसयसहस्सकोडीहिं तं णाणी तिहिं गुत्तो खवेदि उस्सासमेत्तेण ।।२३८।।

यदज्ञानी कर्म क्षपयति भवशतसहस्रकोटिभिः
तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ।।२३८।।

श्रद्धानज्ञानसहितोऽपि पौरुषस्थानीयचारित्रबलेन रागादिविकल्परूपादसंयमाद्यदि न निवर्तते तदा तस्य श्रद्धानं ज्ञानं वा किं कुर्यात्, न किमपीति अतः एतदायातिपरमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां मध्ये द्वयेनैकेन वा निर्वाणं नास्ति, किंतु त्रयेणेति ।।२३७।। एवं भेदाभेदरत्नत्रयात्मकमोक्षमार्ग- स्थापनमुख्यत्वेन द्वितीयस्थले गाथाचतुष्टयं गतम् किंच बहिरात्मावस्थान्तरात्मावस्थापरमात्मावस्था- मोक्षावस्थात्रयं तिष्ठति अवस्थात्रयेऽनुगताकारं द्रव्यं तिष्ठति एवं परस्परसापेक्षद्रव्यपर्यायात्मको जीवपदार्थः तत्र मोक्षकारणं चिन्त्यते मिथ्यात्वरागादिरूपा बहिरात्मावस्था तावदशुद्धा, मुक्तिकारणं


अने असंयतने, यथोक्त आत्मतत्त्वनी प्रतीतिरूप श्रद्धान के यथोक्त आत्मतत्त्वनी अनुभूतिरूप ज्ञान शुं करे? माटे संयमशून्य श्रद्धानथी के ज्ञानथी सिद्धि थती नथी.

आथी आगमज्ञान-तत्त्वार्थश्रद्धान-संयतत्वना अयुगपदपणाने मोक्षमार्गपणुं घटतुं नथी ज. २३७.

हवे, आगमज्ञान-तत्त्वार्थश्रद्धान-संयतत्वनुं युगपदपणुं होवा छतां पण, आत्मज्ञान मोक्षमार्गनुं साधकतम (उत्कृष्ट साधक) छे एम समजावे छेः

अज्ञानी जे कर्मो खपावे लक्ष कोटि भवो वडे,
ते कर्म ज्ञानी त्रिगुप्त बस उच्छवासमात्रथी क्षय करे. २३८.

अन्वयार्थः[यत् कर्म] जे कर्म [अज्ञानी] अज्ञानी [भवशतसहस्रकोटिभिः] लक्ष कोटि भवो वडे [क्षपयति] खपावे छे, [तत्] ते कर्म [ज्ञानी] ज्ञानी [त्रिभिः गुप्तः] त्रण प्रकारे (मन -वचन -कायाथी) गुप्त होवाने लीधे [उच्छवासमात्रेण] उच्छ्वासमात्रथी [क्षपयति] खपावे छे.

४४प्रवचनसार[ भगवानश्रीकुंदकुंद-