संयमसाधनीकृतशरीरपात्रः क्रमेण निश्चलनिरुद्धपञ्चेन्द्रियद्वारतया समुपरतकायवाङ्मनोव्यापारो भूत्वा चिद्वृत्तेः परद्रव्यचङ्क्रमणनिमित्तमत्यन्तमात्मना सममन्योन्यसंवलनादेकीभूतमपि स्वभावभेदात्परत्वेन निश्चित्यात्मनैव कुशलो मल्ल इव सुनिर्भरं निष्पीडय निष्पीडय कषायचक्रमक्रमेण जीवं त्याजयति, स खलु सकलपरद्रव्यशून्योऽपि विशुद्धदृशिज्ञप्तिमात्र- स्वभावभूतावस्थापितात्मतत्त्वोपजातनित्यनिश्चलवृत्तितया साक्षात्संयत एव स्यात् । तस्यैव चागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यात्मज्ञानयौगपद्यं सिद्धयति ।।२४०।।
श्रद्धानसंयतत्वानां त्रयाणां यत्सविकल्पं यौगपद्यं तथा निर्विकल्पात्मज्ञानं चेति द्वयोः संभवं दर्शयति —
पंचसमिदो व्यवहारेण पञ्चसमितिभिः समितः संवृतः पञ्चसमितः, निश्चयेन तु स्वस्वरूपे सम्यगितो
गतः परिणतः समितः । तिगुत्तो व्यवहारेण मनोवचनकायनिरोधत्रयेण गुप्तः त्रिगुप्तः, निश्चयेन स्वस्वरूपे
गुप्तः परिणतः । पंचेंदियसंवुडो व्यवहारेण पञ्चेन्द्रियविषयव्यावृत्त्या संवृतः पञ्चेन्द्रियसंवृतः, निश्चयेन
वातीन्द्रियसुखस्वादरतः । जिदकसाओ व्यवहारेण क्रोधादिकषायजयेन जितकषायः, निश्चयेन
चाकषायात्मभावनारतः । दंसणणाणसमग्गो अत्र दर्शनशब्देन निजशुद्धात्मश्रद्धानरूपं सम्यग्दर्शनं ग्राह्यम्,
ज्ञानशब्देन तु स्वसंवेदनज्ञानमिति; ताभ्यां समग्रो दर्शनज्ञानसमग्रः । समणो सो संजदो भणिदो स
एवंगुणविशिष्टः श्रमण संयत इति भणितः । अत एतदायातं – व्यवहारेण यद्बहिर्विषये व्याख्यानं कृतं
तेन सविकल्पं सम्यग्दर्शनज्ञानचारित्रत्रययौगपद्यं ग्राह्यम्; अभ्यन्तरव्याख्यानेन तु निर्विकल्पात्मज्ञानं ग्राह्यमिति सविकल्पयौगपद्यं निर्विकल्पात्मज्ञानं च घटत इति ।।२४०।। अथागमज्ञानतत्त्वार्थश्रद्धान- संयतत्वलक्षणेन विकल्पत्रययौगपद्येन तथा निर्विकल्पात्मज्ञानेन च युक्तो योऽसौ संयतस्तस्य किं लक्षणमित्युपदिशति । इत्युपदिशति कोऽर्थः इति पृष्टे प्रत्युत्तरं ददाति । एवं प्रश्नोत्तरपातनिकाप्रस्तावे
शरीरपात्रने पांच समितिथी अंकुशित प्रवृत्ति वडे प्रवर्तावतो, क्रमशः पांच इंद्रियोना निश्चळ निरोध द्वारा जेने काय -वचन -मननो व्यापार विराम पाम्यो छे एवो थईने, चिद्वृत्तिने परद्रव्यमां भ्रमणनुं निमित्त जे कषायसमूह ते (कषायसमूह) आत्मानी साथे अन्योन्य मिलनने लीधे अत्यंत एकरूप थई गयो होवा छतां पण स्वभावभेदने लीधे तेने परपणे नक्की करीने आत्माथी ज तेने कुशळ मल्लनी माफक अत्यंत १मर्दन करी करीने अक्रमे मारी नाखे छे, ते पुरुष खरेखर, सकळ परद्रव्यथी शून्य होवा छतां २विशुद्धदर्शनज्ञानमात्र स्वभावरूपे रहेला आत्मतत्त्वमां ( – स्वद्रव्यमां) नित्यनिश्चळ परिणति ऊपजी होवाथी, साक्षात् संयत ज छे. अने तेने ज आगमज्ञान-तत्त्वार्थश्रद्धान-संयतत्वना युगपदपणानुं अने आत्मज्ञाननुं युगपदपणुं सिद्ध थाय छे. २४०.
१. मर्दन करी करीने = दमी दमीने; कचरी कचरीने; दबावी दबावीने.
२. आत्मतत्त्वनो स्वभाव विशुद्धदर्शनज्ञानमात्र छे.