अथानैकाग्र्यस्य मोक्षमार्गत्वं विघटयति — मुज्झदि वा रज्जदि वा दुस्सदि वा दव्वमण्णमासेज्ज ।
यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति, सोऽवश्यं ज्ञेयभूतं द्रव्यमन्यदासीदति । तदासाद्य च ज्ञानात्मात्मज्ञानाद्भ्रष्टः स्वयमज्ञानीभूतो मुह्यति वा, रज्यति वा, द्वेष्टि वा; तथाभूतश्च बध्यत एव, न तु विमुच्यते । अत अनैकाग्र्यस्य न मोक्षमार्गत्वं सिद्धयेत् ।।२४३।। वा दुस्सदि वा दव्वमण्णमासेज्ज जदि मुह्यति वा, रज्यति वा, द्वेष्टि वा, यदि चेत् । किं कृत्वा । द्रव्यमन्यदासाद्य प्राप्य । स कः । समणो श्रमणस्तपोधनः । तदा काले अण्णाणी अज्ञानी भवति । अज्ञानी सन् बज्झदि कम्मेहिं विविहेहिं बध्यते कर्मभिर्विविधैरिति । तथाहि — यो निर्विकारस्वसंवेदनज्ञानेनैकाग्रो भूत्वा स्वात्मानं न जानाति तस्य चित्तं बहिर्विषयेषु गच्छति । ततश्चिदानन्दैकनिजस्वभावाच्च्युतो भवति । ततश्च रागद्वेषमोहैः परिणमति । तत्परिणमन् बहुविधकर्मणा बध्यत इति । ततः कारणान्मोक्षार्थिभि- रेकाग्रत्वेन स्वस्वरूपं भावनीयमित्यर्थः ।।२४३।। अथ निजशुद्धात्मनि योऽसावेकाग्रस्तस्यैव मोक्षो
हवे, अनेकाग्रताने मोक्षमार्गपणुं घटतुं नथी (अर्थात् अनेकाग्रता ते मोक्षमार्ग नथी) एम दर्शावे छेः —
अन्वयार्थः — [यदि] जो [श्रमणः] श्रमण, [अन्यत् द्रव्यम् आसाद्य] अन्य द्रव्यनो आश्रय करीने [अज्ञानी] अज्ञानी थयो थको, [मुह्यति वा] मोह करे छे, [रज्यति वा] राग करे छे [द्वेष्टि वा] अथवा द्वेष करे छे, तो ते [विविधैः कर्मभिः] विविध कर्मो वडे [बध्यते] बंधाय छे.
टीकाः — जे खरेखर ज्ञानात्मक आत्मारूप एक अग्रने ( – विषयने) भावतो नथी, ते अवश्य ज्ञेयभूत अन्य द्रव्यनो आश्रय करे छे, अने तेनो आश्रय करीने ज्ञानात्मक आत्मज्ञानथी भ्रष्ट एवो ते स्वयं अज्ञानी थयो थको, मोह करे छे, राग करे छे अथवा द्वेष करे छे; अने एवो ( – मोही, रागी अथवा द्वेषी) थयो थको बंधाय ज छे, परंतु मुकातो नथी.
आथी अनेकाग्रताने मोक्षमार्गपणुं सिद्ध थतुं नथी. २४३.
४५२प्रवचनसार[ भगवानश्रीकुंदकुंद-