प्रतिज्ञातसंयमत्वात् षटकायविराधनरहिता या काचनापि शुद्धात्मवृत्तित्राणनिमित्ता चातुर्वर्णस्य श्रमणसंघस्योपकारकरणप्रवृत्तिः सा सर्वापि रागप्रधानत्वात् शुभोपयोगिनामेव भवति, न कदाचिदपि शुद्धोपयोगिनाम् ।।२४९।। चातुर्वर्णस्य श्रमणसंघस्य । अत्र श्रमणशद्बेन श्रमणशब्दवाच्या ऋषिमुनियत्यनगारा ग्राह्याः । ‘‘देश- प्रत्यक्षवित्केवलभृदिहमुनिः स्यादृषिः प्रसृतर्द्धिरारूढः श्रेणियुग्मेऽजनि यतिरनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाक्षीणशक्तिप्राप्तो बुद्धयौषधीशो वियदयनपटुर्विश्ववेदी क्रमेण ।।’’ ऋषय ऋद्धिं प्राप्तास्ते चतुर्विधा, राजब्रह्मदेवपरमऋषिभेदात् । तत्र राजर्षयो विक्रिया- क्षीणार्द्धिप्राप्ता भवन्ति । ब्रह्मर्षयो बुद्धयौषधर्द्धियुक्ता भवन्ति । देवर्षयो गगनगमनर्द्धिसंपन्ना भवन्ति । परमर्षयः केवलिनः केवलज्ञानिनो भवन्ति । मुनयः अवधिमनःपर्ययकेवलिनश्च । यतय उपशमक- क्षपकश्रेण्यारूढाः । अनगाराः सामान्यसाधवः । कस्मात् । सर्वेषां सुखदुःखादिविषये समतापरिणामो- ऽस्तीति । अथवा श्रमणधर्मानुकूलश्रावकादिचातुर्वर्णसंघः । कथं यथा भवति । कायविराधणरहिदं स्वस्थभावनास्वरूपं स्वकीयशुद्धचैतन्यलक्षणं निश्चयप्राणं रक्षन् परकीयषटकायविराधनारहितं यथा भवति । सो वि सरागप्पधाणो से सोऽपीत्थंभूतस्तपोधनो धर्मानुरागचारित्रसहितेषु मध्ये प्रधानः श्रेष्ठः स्यादित्यर्थः ।।२४९।। अथ वैयावृत्त्यकालेऽपि स्वकीयसंयमविराधना न कर्तव्येत्युपदिशति — जदि
अन्वयार्थः — [यः अपि] जे कोई (श्रमण) [नित्यं] सदा [कायविराधनरहितं] (छ) कायनी विराधना विना [चातुर्वर्णस्य] चार प्रकारना [श्रमणसंघस्य] श्रमणसंघने [उपकरोति] उपकार करे छे, [सः अपि] ते [सरागप्रधानः स्यात्] रागनी प्रधानतावाळो छे.
टीकाः — संयमनी प्रतिज्ञा करी होवाथी *छ कायनी विराधना विनानी जे कोई पण, शुद्धात्मपरिणतिना रक्षणने निमित्तभूत एवी, +चार प्रकारना श्रमणसंघने उपकार करवानी प्रवृत्ति, ते बधीये रागप्रधानपणाने लीधे शुभोपयोगीओने ज होय छे, शुद्धोपयोगीओने कदापि नहि. २४९.
४६०प्रवचनसार[ भगवानश्रीकुंदकुंद-
*श्रमणसंघने शुद्धात्मपरिणतिना रक्षणमां निमित्तभूत एवी जे उपकारप्रवृत्ति शुभोपयोगी श्रमणो करे
छे ते प्रवृत्ति छ कायनी विराधना विनानी होय छे, कारण के तेमणे (शुभोपयोगी श्रमणोए)
संयमनी प्रतिज्ञा लीधेली छे.
+श्रमणना चार प्रकार आ प्रमाणे छेः (१) ॠषि, (२) मुनि, (३) यति अने (४) अणगार.
ॠद्धिवाळा श्रमण ते ॠषि छे; अवधिज्ञान, मनःपर्ययज्ञान अथवा केवळज्ञानवाळा श्रमण ते मुनि
छे; उपशमक अथवा क्षपक श्रेणिमां आरूढ श्रमण ते यति छे; अने सामान्य साधु ते अणगार
छे. आ प्रमाणे चार प्रकारनो श्रमणसंघ छे.