जदि कुणदि कायखेदं वेज्जावच्चत्थमुज्जदो समणो । ण हवदि हवदि अगारी धम्मो सो सावयाणं से ।।२५०।।
यो हि परेषां शुद्धात्मवृत्तित्राणाभिप्रायेण वैयावृत्त्यप्रवृत्त्या स्वस्य संयमं विराधयति, स गृहस्थधर्मानुप्रवेशात् श्रामण्यात् प्रच्यवते । अतो या काचन प्रवृत्तिः सा सर्वथा संयमाविरोधेनैव विधातव्या; प्रवृत्तावपि संयमस्यैव साध्यत्वात् ।।२५०।। कुणदि कायखेदं वेज्जावच्चत्थमुज्जदो यदि चेत् करोति कायखेदं षटकायविराधनाम् । कथंभूतः सन् । वैयावृत्त्यार्थमुद्यतः । समणो ण हवदि तदा श्रमणस्तपोधनो न भवति । तर्हि किं भवति । हवदि अगारी अगारी गृहस्थो भवति । कस्मात् । धम्मो सो सावयाणं से षटकायविराधनां कृत्वा योऽसौ धर्मः स श्रावकाणां स्यात्, न च तपोधनानामिति । इदमत्र तात्पर्यम् – योऽसौ स्वशरीरपोषणार्थं शिष्यादिमोहेन वा सावद्यं नेच्छति तस्येदं व्याख्यानं शोभते, यदि पुनरन्यत्र सावद्यमिच्छति वैयावृत्त्यादिस्वकीयाव- स्थायोग्ये धर्मकार्ये नेच्छति तदा तस्य सम्यक्त्वमेव नास्तीति ।।२५०।। अथ यद्यप्यल्पलेपो भवति
हवे प्रवृत्ति संयमनी विरोधी होवानो निषेध करे छे (अर्थात् शुभोपयोगी श्रमणने संयम साथे विरोधवाळी प्रवृत्ति न होवी जोईए एम कहे छे)ः —
अन्वयार्थः — [यदि] जो (श्रमण) [वैयावृत्त्यार्थम् उद्यतः] वैयावृत्त्य माटे उद्यमवंत वर्ततां [कायखेदं] छ कायने पीडा [करोति] करे तो ते [श्रमणः न भवति] श्रमण नथी, [अगारी भवति] गृहस्थ छे; (कारण के) [सः] ते (छ कायनी विराधना सहित वैयावृत्त्य) [श्रावकाणां धर्मः स्यात्] श्रावकोनो धर्म छे.
टीकाः — जे (श्रमण) बीजाने शुद्धात्मपरिणतिनुं रक्षण थाय एवा अभिप्रायथी वैयावृत्त्यनी प्रवृत्ति करतां पोताना संयमनी विराधना करे छे, ते गृहस्थधर्ममां प्रवेशतो होवाने लीधे श्रामण्यथी च्युत थाय छे. आथी (एम कह्युं के) जे कोई प्रवृत्ति होय ते सर्वथा संयम साथे विरोध न आवे एवी रीते ज करवी जोईए, कारण के प्रवृत्तिमां पण संयम ज साध्य छे.