समधिगतशुद्धात्मवृत्तीनां ग्लानगुरुबालवृद्धश्रमणानां वैयावृत्त्यनिमित्तमेव शुद्धात्मवृत्ति- शून्यजनसम्भाषणं प्रसिद्धं, न पुनरन्यनिमित्तमपि ।।२५३।।
अथैवमुक्तस्य शुभोपयोगस्य गौणमुख्यविभागं दर्शयति — एसा पसत्थभूदा समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा ताएव परं लहदि सोक्खं ।।२५४।। तपोधनानां न निन्दिता, न निषिद्धा । का कर्मतापन्ना । लोगिगजणसंभासा लौकिकजनैः सह संभाषा वचनप्रवृत्तिः । सुहोवजुदा वा अथवा सापि शुभोपयोगयुक्ता भण्यते । किमर्थं न निषिद्धा । वेज्जावच्चणिमित्तं वैयावृत्त्यनिमित्तम् । केषां वैयावृत्त्यम् । गिलाणगुरुबालवुड्ढसमणाणं ग्लानगुरुबालवृद्धश्रमणानाम् । अत्र गुरुशब्देन स्थूलकायो भण्यते, अथवा पूज्यो वा गुरुरिति । तथाहि — यदा कोऽपि शुभोपयोगयुक्त आचार्यः सरागचारित्रलक्षणशुभोपयोगिनां वीतरागचारित्रलक्षणशुद्धोपयोगिनां वा वैयावृत्त्यं करोति, तदाकाले तद्वैयावृत्त्यनिमित्तं लौकिकजनैः सह संभाषणं करोति, न शेषकाल इति भावार्थः ।।२५३।। एवं गाथापञ्चकेन लौकिकव्याख्यानसंबन्धिप्रथमस्थलं गतम् । अथायं वैयावृत्त्यादिलक्षण- शुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति — भणिदा भणिता कथिता । का कर्मतापन्ना । चरिया चर्या चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा । केषां संबन्धिनी । समणाणं वा श्रमणानां वा पुणो घरत्थाणं
अन्वयार्थः — [वा] वळी [ग्लानगुरुबालवृद्धश्रमणानाम्] रोगी, गुरु ( – पूज्य, वडेरा), बाळ अने वृद्ध श्रमणोनी [वैयावृत्त्यनिमित्तं] सेवाना (वैयावृत्त्यना) निमित्ते, [शुभोपयुता] शुभोपयोगवाळी [लौकिकजनसम्भाषा] लौकिक जनो साथेनी वातचीत [न निन्दिता] निंदित नथी.
टीकाः — शुद्धात्मपरिणतिने पामेला रोगी, गुरु, बाळ अने वृद्ध श्रमणोनी सेवाना निमित्ते ज (शुभोपयोगी श्रमणने) शुद्धात्मपरिणतिशून्य जनो साथे वातचीत प्रसिद्ध छे ( – शास्त्रोमां अनिषिद्ध छे), परंतु बीजा निमित्ते पण प्रसिद्ध छे एम नथी. २५३.
हवे ए रीते कहेवामां आवेला शुभोपयोगनो गौण -मुख्य विभाग दर्शावे छे (अर्थात् कोने शुभोपयोग गौण होय छे अने कोने मुख्य होय छे ते कहे छे)ः —