यदायमात्मा मनागपि धर्मपरिणतिमनासादयन्नशुभोपयोगपरिणतिमालम्बते तदा कुमनुष्यतिर्यङ्नारकभ्रमणरूपं दुःखसहस्रबन्धमनुभवति । ततश्चारित्रलवस्याप्यभावादत्यन्तहेय एवायमशुभोपयोग इति ।।१२।।
एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगा- धिकारमारभते । तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति — पूर्वमनाकुलत्वलक्षणपारमार्थिकसुखविपरीतमाकुलत्वोत्पादकं स्वर्गसुखं लभते । पश्चात् परम- समाधिसामग्रीसद्भावे मोक्षं च लभते इति सूत्रार्थः ।।११।। अथ चारित्रपरिणामासंभवादत्यन्त- हेयस्याशुभोपयोगस्य फलं दर्शयति ---असुहोदएण अशुभोदयेन आदा आत्मा कुणरो तिरियो भवीय णेरइयो कुनरस्तिर्यङ्नारको भूत्वा । किं करोति । दुक्खसहस्सेहिं सदा अभिद्दुदो भमदि अच्चंतं दुःखसहस्रैः सदा सर्वकालमभिद्रुतः कदर्थितः पीडितः सन् संसारे अत्यन्तं भ्रमतीति । तथाहि ---निर्विकारशुद्धात्म- तत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन विपरीताभिनिवेशजनकेन द्रष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन दुःखितः सन् स्वस्वभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः । एवमुपयोगत्रय- फलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ।।१२।। अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा शुद्धोपयोगाधिकारं प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् जीवस्य प्रोत्साहनार्थं शुद्धो- पयोगफलं प्रकाशयति । अथवा द्वितीयपातनीका --यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण
अन्वयार्थः — [अशुभोदयेन] अशुभ उदयथी [आत्मा] आत्मा [कुनरः] कुमनुष्य (हलको मनुष्य), [तिर्यग्] तिर्यंच [नैरयिकः] अने नारक [भूत्वा] थईने [दुःखसहस्रैः] हजारो दुःखोथी [सदा अभिद्रुतः] सदा पीडित थतो [अत्यंतं भ्रमति] (संसारमां) अत्यंत भमे छे.
टीकाः — ज्यारे आ आत्मा जरा पण धर्मपरिणतिने नहि प्राप्त करतो थको अशुभोपयोगपरिणतिने अवलंबे छे, त्यारे ते कुमनुष्यपणे, तिर्यंचपणे अने नारकपणे परिभ्रमणरूप हजारो दुःखोना बंधने अनुभवे छे; तेथी चारित्रना लेशमात्रनो पण अभाव होवाथी आ अशुभोपयोग अत्यंत हेय ज छे. १२.
आ रीते आ (भगवान कुंदकुंदाचार्यदेव) समस्त शुभाशुभोपयोगवृत्तिने (शुभ उपयोगरूप अने अशुभ उपयोगरूप परिणतिने) ✽अपास्त करीने ( – तिरस्कारीने)
✽ अपास्त करवुं = तिरस्कारवुं; तरछोडवुं; हेय गणवुं; दूर करवुं; छोडी देवुं.