उवरदपावो पुरिसो समभावो धम्मिगेसु सव्वेसु । गुणसमिदिदोवसेवी हवदि स भागी सुमग्गस्स ।।२५९।।
उपरतपापत्वेन, सर्वधर्मिमध्यस्थत्वेन, गुणग्रामोपसेवित्वेन च सम्यग्दर्शनज्ञानचारित्र- यौगपद्यपरिणतिनिर्वृत्तैकाग्र्यात्मकसुमार्गभागी, स श्रमणः स्वयं परस्य मोक्षपुण्यायतनत्वाद- विपरीतफलकारणं कारणमविपरीतं प्रत्येयम् ।।२५९।। शास्त्रेषु, किह ते तप्पडिबद्धा पुरिसा णित्थारगा होंति कथं ते तत्प्रतिबद्धा विषयकषायप्रतिबद्धाः पुरुषा निस्तारकाः संसारोत्तारका दातॄणाम्, न कथमपीति । एतदुक्तं भवति — विषयकषायास्तावत्पाप- स्वरूपास्तद्वन्तः पुरुषा अपि पापा एव, ते च स्वकीयभक्तानां दातॄणां पुण्यविनाशका एवेति ।।२५८।। अथ पात्रभूततपोधनलक्षणं कथयति — उपरतपापत्वेन, सर्वधार्मिकसमदर्शित्वेन, गुणग्रामसेवकत्वेन च स्वस्य मोक्षकारणत्वात्परेषां पुण्यकारणत्वाच्चेत्थंभूतगुणयुक्तः पुरुषः सम्यग्दर्शनज्ञानचारित्रैकाग्यलक्षण- निश्चयमोक्षमार्गस्य भाजनं भवतीति ।।२५९।। अथ तेषामेव पात्रभूततपोधनानां प्रकारान्तरेण लक्षणमुपलक्षयति — शुद्धोपयोगशुभोपयोगपरिणतपुरुषाः पात्रं भवन्तीति । तद्यथा — निर्विकल्प- समाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतरागचारित्रलक्षणशुद्धोपयोगयुक्ताः, कदाचित्पुन- र्मोहद्वेषाशुभरागरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च
हवे अविपरीत फळनुं कारण एवुं जे ‘अविपरीत कारण’ ते दर्शावे छेः —
अन्वयार्थः — [उपरतपापः] जेने पाप विराम पाम्युं छे, [सर्वेषु धार्मिकेषु समभावः] जे सर्व धार्मिको प्रत्ये समभाववाळो छे अने [गुणसमितितोपसेवी] जे गुणसमुदायने सेवनारो छे [सः पुरुषः] ते पुरुष [सुमार्गस्य भागी भवति] सुमार्गवंत छे.
टीकाः — पाप विराम पाम्युं होवाथी, सर्व धर्मीओ प्रत्ये पोते मध्यस्थ होवाथी अने गुणसमूहने सेवतो होवाथी जे श्रमण सम्यग्दर्शनज्ञानचारित्रना युगपदपणारूप परिणतिथी रचायेली एकाग्रतास्वरूप *सुमार्गनो भागी छे, ते श्रमण पोताने अने परने मोक्षनुं अने पुण्यनुं आयतन (स्थान) छे तेथी ते (श्रमण) अविपरीत फळनुं कारण एवुं ‘अविपरीत कारण’ छे एम प्रतीति करवी. २५९.
*सुमार्गनो भागी = सुमार्गशाळी; सुमार्गवंत; सुमार्गनुं भाजन.