प्रवाहावस्थायित्वेन सकलार्थसार्थात्मकस्य प्रवचनस्य सारभूतं भूतार्थस्वसंवेद्यदिव्यज्ञानानन्द-
स्वभावमननुभूतपूर्वं भगवन्तमात्मानमवाप्नोति ।।२७५।।
इति तत्त्वदीपिकायां श्रीमदमृतचन्द्रसूरिविरचितायां प्रवचनसारवृत्तौ चरणानुयोगसूचिका चूलिका नाम तृतीयः श्रुतस्कन्धः समाप्तः ।।३।।
ज्ञेयभूतपरमात्मादिपदार्थानां तत्साध्यस्य निर्विकारस्वसंवेदनज्ञानस्य च, तथैव तत्त्वार्थश्रद्धानलक्षण- सम्यग्दर्शनस्य तद्विषयभूतानेकान्तात्मकपरमात्मादिद्रव्याणां तेन व्यवहारसम्यक्त्वेन साध्यस्य निज- शुद्धात्मरुचिरूपनिश्चयसम्यक्त्वस्य च, तथैव च व्रतसमितिगु प्त्याद्यनुष्ठानरूपस्य सरागचारित्रस्य तेनैव साध्यस्य स्वशुद्धात्मनिश्चलानुभूतिरूपस्य वीतरागचारित्रस्य च प्रतिपादकत्वात्प्रवचनसाराभिधेयम् । कथंभूतः सः शिष्यजनः । सागारणगारचरियया जुत्तो सागारानागारचर्यया युक्तः । आभ्यन्तररत्न -त्रयानुष्ठानमुपादेयं कृत्वा बहिरङ्गरत्नत्रयानुष्ठानं सागारचर्या श्रावकचर्या । बहिरङ्गरत्नत्रयाधारेणाभ्यन्तर -रत्नत्रयानुष्ठानमनागारचर्या प्रमत्तसंयतादितपोधनचर्येत्यर्थः ।।२७५।। इति गाथापञ्चकेन पञ्चरत्नसंज्ञं पञ्चमस्थलं व्याख्यातम् । एवं ‘णिच्छिदसुत्तत्थपदो’ इत्यादि द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन शुभोप -योगाभिधानश्चतुर्थान्तराधिकारः समाप्तः ।।
इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण ‘एवं पणमिय सिद्धे’ इत्याद्येक- विंशतिगाथाभिरुत्सर्गाधिकारः । तदनन्तरं ‘ण हि णिरवेक्खो चागो’ इत्यादि त्रिंशद्गाथाभिरपवादाधिकारः । ततः परं ‘एयग्गगदो समणो’ इत्यादिचतुर्दशगाथाभिः श्रामण्यापरनामा मोक्षमार्गाधिकारः । ततोऽप्यनन्तरं ‘णिच्छिदसुत्तत्थपदो’ इत्यादिद्वात्रिंशद्गाथाभिः शुभोपयोगाधिकारश्चेत्यन्तराधिकारचतुष्टयेन सप्तनवतिगाथाभिश्चरणानुयोगचूलिका नामा तृतीयो महाधिकारः समाप्तः ।।३।। अनुभवतो, आ उपदेशने जाणे छे, ते (शिष्यवर्ग) खरेखर, १भूतार्थ -स्वसंवेद्य दिव्य ज्ञानानंद जेनो स्वभाव छे एवा, पूर्वे नहि अनुभवेला, भगवान आत्माने पामे छे — के जे (आत्मा) त्रणे काळना निरवधि प्रवाहमां अवस्थायी ( – टकनारो) होवाथी २सकळ पदार्थोना समूहात्मक प्रवचनना सारभूत छे. २७५.
आम (श्रीमद्भगवत्कुंदकुंदाचार्यदेवप्रणीत) श्री प्रवचनसार शास्त्रनी श्रीमद्- अमृतचंद्राचार्यदेवविरचित तत्त्वदीपिका नामनी टीकामां चरणानुयोगसूचक चूलिका नामनो तृतीय श्रुतस्कंध समाप्त थयो.
४९२प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. पारमार्थिक (सत्यार्थ), स्वसंवेद्य अने दिव्य एवां जे ज्ञान अने आनंद ते भगवान आत्मानो स्वभाव छे.
२. प्रवचन सकळ पदार्थोना समूहनुं प्रतिपादन करे छे तेथी तेने सकळ पदार्थोना समूहात्मक कह्युं छे.
[निज शुद्धात्मा प्रवचनना सारभूत छे, कारण के प्रवचन जे सर्व पदार्थसमूहनुं प्रतिपादन करे छे
तेमां एक निजात्मपदार्थ ज पोताने ध्रुव छे, बीजो कोई पदार्थ पोताने ध्रुव नथी.]