यो हि नाम चैतन्यपरिणामलक्षणेनोपयोगेन यथाशक्ति विशुद्धो भूत्वा वर्तते स खलु प्रतिपदमुद्भिद्यमानविशिष्टविशुद्धिशक्तिरुद्ग्रन्थितासंसारबद्धदृढतरमोहग्रन्थितयात्यन्तनिर्विकारचैतन्यो निरस्तसमस्तज्ञानदर्शनावरणान्तरायतया निःप्रतिघविजृम्भितात्मशक्तिश्च स्वयमेव भूतो ज्ञेयत्वमापन्नानामन्तमवाप्नोति । इह कि लात्मा ज्ञानस्वभावो ज्ञानं तु ज्ञेयमात्रं; ततः समस्त- ज्ञेयान्तर्वर्तिज्ञानस्वभावमात्मानमात्मा शुद्धोपयोगप्रसादादेवासादयति ।।१५।। पातनिका । तद्यथा ---अथ शुद्धोपयोगलाभानन्तरं केवलज्ञानं भवतीति कथयति । अथवा द्वितीयपातनिका ---कुन्दकुन्दाचार्यदेवाः सम्बोधनं कुर्वन्ति, हे शिवकुमारमहाराज, कोऽप्यासन्नभव्यः संक्षेपरुचिः पीठिकाव्याख्यानमेव श्रुत्वात्मकार्यं करोति, अन्यः कोऽपि पुनर्विस्तररुचिः शुद्धोपयोगेन संजातसर्वज्ञस्य ज्ञानसुखादिकं विचार्य पश्चादात्मकार्यं करोतीति व्याख्याति ---उवओगविसुद्धो जो उपयोगेन शुद्धोपयोगेन परिणामेन विशुद्धो भूत्वा वर्तते यः विगदावरणंतरायमोहरओ भूदो विगतावरणान्तरायमोहरजोभूतः सन् । कथम् । सयमेव निश्चयेन स्वयमेव आदा स पूर्वोक्त आत्मा जादि याति गच्छति । किं । परं पारमवसानम् । केषाम् । णेयभूदाणं ज्ञेयभूतपदार्थानाम् । सर्वं जानातीत्यर्थः । अतो विस्तर : — यो निर्मोहशुद्धात्मसंवित्तिलक्षणेन शुद्धोपयोगसंज्ञेनागमभाषया पृथक्त्ववितर्क- वीचारप्रथमशुक्लध्यानेन पूर्वं निरवशेषमोहक्षपणं कृत्वा तदनन्तरं रागादिविकल्पोपाधिरहितस्वसंवित्ति- लक्षणेनैकत्ववितर्कावीचारसंज्ञद्वितीयशुक्लध्यानेन क्षीणकषायगुणस्थानेऽन्तर्मुहूर्तकालं स्थित्वा तस्यै- वान्त्यसमये ज्ञानदर्शनावरणवीर्यान्तरायाभिधानघातिकर्मत्रयं युगपद्विनाशयति, स जगत्त्रयकालत्रय- वर्तिसमस्तवस्तुगतानन्तधर्माणां युगपत्प्रकाशकं केवलज्ञानं प्राप्नोति । ततः स्थितं शुद्धोपयोगात्सर्वज्ञो भवतीति ।।१५।। अथ शुद्धोपयोगजन्यस्य शुद्धात्मस्वभावलाभस्य भिन्नकारक निरपेक्षत्वेनात्माधीनत्वं
टीकाः — जे (आत्मा) चैतन्यपरिणामस्वरूप उपयोग वडे यथाशक्ति विशुद्ध थईने वर्ते छे ते (आत्मा), जेने पदे पदे ( – पगले पगले, पर्याये पर्याये) *विशिष्ट विशुद्धिशक्ति प्रगट थती जाय छे एवो होवाने लीधे, अनादि संसारथी बंधायेली द्रढतर मोहग्रंथि छूटी जवाथी अत्यंत निर्विकार चैतन्यवाळो अने समस्त ज्ञानावरण, दर्शनावरण तथा अंतराय नष्ट थवाथी निर्विघ्न खीलेली आत्मशक्तिवाळो स्वयमेव थयो थको, ज्ञेयपणाने पामेला (पदार्थो)ना अंतने पामे छे.
अहीं (एम कह्युं के), आत्मा ज्ञानस्वभाव छे अने ज्ञान ज्ञेयप्रमाण छे; तेथी समस्त ज्ञेयोनी अंदर पेसनारुं (अर्थात् तेमने जाणनारुं) ज्ञान जेनो स्वभाव छे एवा आत्माने आत्मा शुद्धोपयोगना प्रसादथी ज प्राप्त करे छे.
भावार्थः — शुद्धोपयोगी जीव क्षणे क्षणे अत्यंत शुद्धि प्राप्त करतो जाय छे; अने
* विशिष्ट = वधारे; असाधारण; खास.
२४प्रवचनसार[ भगवानश्रीकुंदकुंद-