यतो न खल्विन्द्रियाण्यालम्ब्यावग्रहेहावायपूर्वकप्रक्रमेण केवली विजानाति, स्वयमेव समस्तावरणक्षयक्षण एवानाद्यनन्ताहेतुकासाधारणभूतज्ञानस्वभावमेव कारणत्वेनोपादाय तदुपरि प्रविक सत्केवलज्ञानोपयोगीभूय विपरिणमते, ततोऽस्याक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकाल- भावतया समक्षसंवेदनालम्बनभूताः सर्वद्रव्यपर्यायाः प्रत्यक्षा एव भवन्ति ।।२१।। केवलज्ञानस्य सर्वं प्रत्यक्षं भवतीति कथनमुख्यत्वेन ‘परिणमदो खलु’ इत्यादिगाथाद्वयम्, अथात्मज्ञानयोर्निश्चयेनासंख्यातप्रदेशत्वेऽपि व्यवहारेण सर्वगतत्वं भवतीत्यादिकथनमुख्यत्वेन ‘आदा णाणपमाणं’ इत्यादिगाथापञ्चकम्, ततः परं ज्ञानज्ञेययोः परस्परगमननिराकरणमुख्यतया ‘णाणी णाणसहावो’ इत्यादिगाथापञ्चकम्, अथ निश्चयव्यवहारकेवलिप्रतिपादनादिमुख्यत्वेन ‘जो हि सुदेण’ इत्यादिसूत्रचतुष्टयम्, अथ वर्तमानज्ञाने कालत्रयपर्यायपरिच्छित्तिकथनादिरूपेण ‘तक्कालिगेव सव्वे’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं बन्धकारणं न भवति रागादिविकल्परहितं छद्मस्थज्ञानमपि, किंतु रागादयो बन्धकारणमित्यादिनिरूपणमुख्यतया ‘परिणमदि णेयं’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं सर्वज्ञानं सर्वज्ञत्वेन प्रतिपादयतीत्यादिव्याख्यानमुख्यत्वेन ‘जं तक्कालियमिदरं’ इत्यादिगाथापञ्चकम्, अथ ज्ञानप्रपञ्चोपसंहारमुख्यत्वेन प्रथमगाथा, नमस्कारकथनेन द्वितीया चेति ‘णवि परिणमदि’ इत्यादि गाथाद्वयम् । एवं ज्ञानप्रपञ्चाभिधानतृतीयान्तराधिकारे त्रयस्त्रिंशद्गाथाभिः स्थलाष्टकेन समुदाय-
अन्वयार्थः — [खलु] खरेखर [ज्ञानं परिणममानस्य] ज्ञानरूपे (केवळज्ञानरूपे) परिणमता केवळीभगवानने [सर्वद्रव्यपर्यायाः] सर्व द्रव्य -पर्यायो [प्रत्यक्षाः] प्रत्यक्ष छे; [सः] ते [तान्] तेमने [अवग्रहपूर्वाभिः क्रियाभिः] अवग्रह आदि क्रियाओथी [नैव विजानाति] नथी जाणता.
टीकाः — इन्द्रियोने आलंबीने अवग्रह -ईहा -अवायपूर्वक क्रमथी केवळीभगवान जाणता नथी, (परंतु) स्वयमेव समस्त आवरणना क्षयनी क्षणे ज, अनादि अनंत, अहेतुक अने असाधारण ज्ञानस्वभावने ज कारणपणे ग्रहवाथी तुरत ज प्रगटता केवळ- ज्ञानोपयोगरूप थईने परिणमे छे; माटे तेमने समस्त द्रव्य, क्षेत्र, काळ अने भावनुं अक्रमे ग्रहण होवाथी समक्ष संवेदनने (-प्रत्यक्ष ज्ञानने) आलंबनभूत समस्त द्रव्य -पर्यायो प्रत्यक्ष ज छे.
भावार्थः — जेनो आदि नथी तेम ज अंत नथी, जेनुं कोई कारण नथी अने जे अन्य कोई द्रव्यमां नथी एवा ज्ञानस्वभावने ज उपादेय करीने, केवळज्ञाननी उत्पत्तिना बीजभूत शुक्लध्यान नामना स्वसंवेदनज्ञाने ज्यारे आत्मा परिणमे छे त्यारे तेना निमित्ते