अस्य खलु भगवतः समस्तावरणक्षयक्षण एव सांसारिकपरिच्छित्तिनिष्पत्तिबलाधान- हेतुभूतानि प्रतिनियतविषयग्राहीण्यक्षाणि तैरतीतस्य, स्पर्शरसगन्धवर्णशब्दपरिच्छेदरूपैः समरसतया समन्ततः सर्वैर्रेवेन्द्रियगुणैः समृद्धस्य, स्वयमेव सामस्त्येन स्वपरप्रकाशनक्षममनश्वरं लोकोत्तरज्ञानं जातस्य, अक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया न किंचनापि परोक्षमेव स्यात् ।।२२।। प्रत्यक्षं भवतीत्यन्वयरूपेण पूर्वसूत्रे भणितमिदानीं तु परोक्षं किमपि नास्तीति तमेवार्थं व्यतिरेकेण दृढयति — णत्थि परोक्खं किंचि वि अस्य भगवतः परोक्षं किमपि नास्ति । किंविशिष्टस्य । समंत सव्वक्खगुणसमिद्धस्स समन्ततः सर्वात्मप्रदेशैः सामस्त्येन वा स्पर्शरसगन्धवर्णशब्दपरिच्छित्तिरूप- सर्वेन्द्रियगुणसमृद्धस्य । तर्हि किमक्षसहितस्य । नैवम् । अक्खातीदस्स अक्षातीतस्येन्द्रियव्यापाररहितस्य, अथवा द्वितीयव्याख्यानम् — अक्ष्णोति ज्ञानेन व्याप्नोतीत्यक्ष आत्मा तद्गुणसमृद्धस्य । सदा सर्वदा सर्वकालम् । पुनरपि किंरूपस्य । सयमेव हि णाणजादस्स स्वयमेव हि स्फु टं केवलज्ञानरूपेण जातस्य परिणतस्येति । तद्यथा – अतीन्द्रियस्वभावपरमात्मनो विपरीतानि क्रमप्रवृत्तिहेतुभूतानीन्द्रियाण्यतिक्रान्तस्य जगत्त्रयकालत्रयवर्तिसमस्तपदार्थयुगपत्प्रत्यक्षप्रतीतिसमर्थमविनश्वरमखण्डैकप्रतिभासमयं केवलज्ञानं परिणतस्यास्य भगवतः परोक्षं किमपि नास्तीति भावार्थः ।।२२।। एवं केवलिनां समस्तं प्रत्यक्षं भवतीति कथनरूपेण प्रथमस्थले गाथाद्वयं गतम् । अथात्मा ज्ञानप्रमाणो भवतीति ज्ञानं च
टीकाः — समस्त आवरणना क्षयनी क्षणे ज जे (भगवान) सांसारिक ज्ञान निपजाववाना बळने अमलमां मूकवामां हेतुभूत एवी जे पोतपोताना निश्चित विषयोने ग्रहण करनारी इन्द्रियो तेमनाथी अतीत थया छे, जे स्पर्श, रस, गंध, वर्ण अने शब्दना ज्ञानरूप सर्व इन्द्रियगुणो वडे सर्व तरफथी समरसपणे समृद्ध छे (अर्थात् जे भगवान स्पर्श, रस, गंध, वर्ण तेम ज शब्दने सर्व आत्मप्रदेशेथी समानपणे जाणे छे) अने जे स्वयमेव समस्तपणे स्वपरने प्रकाशवामां समर्थ एवा अविनाशी लोकोत्तर ज्ञानरूप थया छे एवा आ (केवळी) भगवानने समस्त द्रव्य -क्षेत्र -काळ -भावनुं अक्रमे ग्रहण होवाथी कांई पण परोक्ष नथी.
भावार्थः — इन्द्रियनो गुण तो स्पर्शादि एक गुणने ज जाणवानो छे, जेम के चक्षुइन्द्रियनो गुण रूपने ज जाणवानो छे अर्थात् रूपने ज जाणवामां निमित्त थवानो छे. वळी इन्द्रियज्ञान क्रमिक छे. केवळीभगवान तो इन्द्रियोना निमित्त विना समस्त आत्मप्रदेशेथी स्पर्शादि सर्व विषयोने जाणे छे, अने जे समस्तपणे पोतानुं ने परनुं प्रकाशक छे एवा लोकोत्तर ज्ञानरूपे ( – लौकिकज्ञानथी भिन्न केवळज्ञानरूपे) स्वयमेव परिणम्या करे छे; माटे समस्त द्रव्य, क्षेत्र, काळ अने भावने अवग्रहादि क्रम विना जाणता होवाथी केवळीभगवानने कांई पण परोक्ष नथी. २२.