Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 44 of 513
PDF/HTML Page 75 of 544

 

ज्ञानं हि त्रिसमयावच्छिन्नसर्वद्रव्यपर्यायरूपव्यवस्थितविश्वज्ञेयाकारानाक्रामत् सर्वगतमुक्तं, तथाभूतज्ञानमयीभूय व्यवस्थितत्वाद्भगवानपि सर्वगत एव एवं सर्वगतज्ञानविषयत्वात्सर्वेऽर्था अपि सर्वगतज्ञानाव्यतिरिक्तस्य भगवतस्तस्य ते विषया इति भणितत्वात्तद्गता एव भवन्ति तत्र निश्चयनयेनानाकुलत्वलक्षणसौख्यसंवेदनत्वाधिष्ठानत्वावच्छिन्नात्मप्रमाणज्ञानस्वतत्त्वा- परित्यागेन विश्वज्ञेयाकाराननुपगम्यावबुध्यमानोऽपि व्यवहारनयेन भगवान् सर्वगत इति व्यपदिश्यते तथा नैमित्तिकभूतज्ञेयाकारानात्मस्थानवलोक्य सर्वेऽर्थास्तद्गता इत्युपचर्यन्ते, न च तेषां परमार्थतोऽन्योन्यगमनमस्ति, सर्वद्रव्याणां स्वरूपनिष्ठत्वात् अयं क्रमो ज्ञानेऽपि निश्चेयः ।।२६।। सर्वज्ञः कस्मात् सर्वगतो भवति जिणो जिनः णाणमयादो य ज्ञानमयत्वाद्धेतोः सव्वे वि य तग्गया जगदि अट्ठा सर्वेऽपि च ये जगत्यर्थास्ते दर्पणे बिम्बवद् व्यवहारेण तत्र भगवति गता भवन्ति कस्मात् ते भणिदा तेऽर्थास्तत्र गता भणिताः विसयादो विषयत्वात्परिच्छेद्यत्वात् ज्ञेयत्वात् कस्य तस्स तस्य भगवत इति तथाहि ---यदनन्तज्ञानमनाकुलत्वलक्षणानन्तसुखं च तदाधारभूतस्तावदात्मा इत्थं- भूतात्मप्रमाणं ज्ञानमात्मनः स्वस्वरूपं भवति इत्थंभूतं स्वस्वरूपं देहगतमपरित्यजन्नेव लोकालोकं परिच्छिनत्ति ततः कारणाद्वयवहारेण सर्वगतो भण्यते भगवान् येन च कारणेन नीलपीतादिबहिः- पदार्था आदर्शे बिम्बवत् परिच्छित्त्याकारेण ज्ञाने प्रतिफलन्ति ततः कारणादुपचारेणार्थकार्यभूता

टीकाःज्ञान त्रणे काळना सर्व द्रव्य -पर्यायरूप वर्तता समस्त ज्ञेयाकारोने पहोंची वळतुं (जाणतुं) होवाथी सर्वगत कहेवामां आव्युं छे; अने एवा (सर्वगत) ज्ञानमय थईने रहेला होवाथी भगवान पण सर्वगत ज छे. ए रीते सर्व पदार्थो पण सर्वगत ज्ञानना विषय होवाने लीधे, सर्वगत ज्ञानथी अभिन्न एवा ते भगवानना ते विषयो छे एम (शास्त्रमां) कह्युं छे; माटे सर्व पदार्थो भगवानगत ज (भगवानमां प्राप्त ज) छे.

त्यां (एम समजवुं के)निश्चयनये अनाकुळतालक्षण सुखनुं जे संवेदन ते सुखसंवेदनना अधिष्ठानपणा जेवडो ज आत्मा छे अने ते आत्मा जेवडुं ज ज्ञान स्वतत्त्व छे; ते आत्मप्रमाण ज्ञान के जे निज स्वरूप छे तेने छोड्या विना, समस्त ज्ञेयाकारोनी समीप गया विना, भगवान (सर्व पदार्थोने) जाणे छे. निश्चयनये आम होवा छतां व्यवहारनये ‘भगवान सर्वगत छे’ एम कहेवाय छे. वळी

४४प्रवचनसार[ भगवानश्रीकुंदकुंद-

१. अधिष्ठान = आधार; रहेठाण. (आत्मा सुखसंवेदननो आधार छे. जेटलामां सुखनुं वेदन थाय छे तेवडो ज आत्मा छे.)

२. ज्ञेयाकारो = पर पदार्थोनां द्रव्य -गुण -पर्यायो के जेओ ज्ञेय छे. (आ ज्ञेयाकारो परमार्थे आत्माथी तद्दन भिन्न छे.)