श्रुतं हि तावत्सूत्रम् । तच्च भगवदर्हत्सर्वज्ञोपज्ञं स्यात्कारकेतनं पौद्गलिकं शब्दब्रह्म । तज्ज्ञप्तिर्हि ज्ञानम् । श्रुतं तु तत्कारणत्वात् ज्ञानत्वेनोपचर्यत एव । एवं सति सूत्रस्य ज्ञप्तिः श्रुतज्ञानमित्यायाति । अथ सूत्रमुपाधित्वान्नाद्रियते ज्ञप्तिरेवावशिष्यते । सा च केवलिनः श्रुतकेवलिनश्चात्मसंचेतने तुल्यैवेति नास्ति ज्ञानस्य श्रुतोपाधिभेदः ।। ३४ ।। प्रदीपस्थानीयेन रागादिविकल्परहितपरमसमाधिना निजात्मानं पश्यतीति । अयमत्राभिप्रायः ---आत्मा परोक्षः, कथं ध्यानं क्रियते इति सन्देहं कृत्वा परमात्मभावना न त्याज्येति ।।३३।। अथ शब्दरूपं द्रव्यश्रुतं व्यवहारेण ज्ञानं निश्चयेनार्थपरिच्छित्तिरूपं भावश्रुतमेव ज्ञानमिति कथयति । अथवात्मभावनारतो निश्चयश्रुतकेवली भवतीति पूर्वसूत्रे भणितम् । अयं तु व्यवहारश्रुतकेवलीति कथ्यते ---सुत्तं द्रव्यश्रुतम् । कथम्भूतम् । जिणोवदिट्ठं जिनोपदिष्टम् । कैः कृत्वा । पोग्गलदव्वप्पगेहिं वयणेहिं पुद्गलद्रव्यात्मकैर्दिव्यध्वनिवचनैः । तं जाणणा हि णाणं तेन पूर्वोक्त शब्दश्रुताधारेण ज्ञप्तिरर्थपरि- च्छित्तिर्ज्ञानं भण्यते हि स्फु टम् । सुत्तस्स य जाणणा भणिया पूर्वोक्तद्रव्यश्रुतस्यापि व्यवहारेण ज्ञानव्यपदेशो भवति न तु निश्चयेनेति । तथा हि --यथा निश्चयेन शुद्धबुद्धैकस्वभावो जीवः पश्चाद्वयवहारेण नरनारकादिरूपोऽपि जीवो भण्यते; तथा निश्चयेनाखण्डैकप्रतिभासरूपं समस्त- वस्तुप्रकाशकं ज्ञानं भण्यते, पश्चाद्वयवहारेण मेघपटलावृतादित्यस्यावस्थाविशेषवत्कर्मपटलावृता- खण्डैकज्ञानरूपजीवस्य मतिज्ञानश्रुतज्ञानादिव्यपदेशो भवतीति भावार्थः ।।३४।। अथ भिन्नज्ञानेनात्मा
टीकाः — प्रथम तो श्रुत एटले सूत्र; अने सूत्र एटले भगवान अर्हत् -सर्वज्ञे स्वयं जाणीने उपदेशेलुं, १स्यात्कार जेनुं चिह्न छे एवुं, पौद्गलिक शब्दब्रह्म. तेनी २ज्ञप्ति ( – शब्दब्रह्मने जाणनारी जाणनक्रिया) ते ज्ञान छे; श्रुत( – सूत्र) तो तेनुं ( – ज्ञाननुं) कारण होवाथी ज्ञान तरीके उपचारथी ज कहेवाय छे (जेम अन्नने प्राण कहेवाय छे तेम). आम होवाथी एम फलित थाय छे के ‘सूत्रनी ज्ञप्ति’ ते श्रुतज्ञान छे. हवे जो सूत्र तो उपाधि होवाथी तेनो आदर न करवामां आवे तो ‘ज्ञप्ति’ ज बाकी रहे छे; (‘सूत्रनी ज्ञप्ति’ कहीए छीए त्यां निश्चयथी ज्ञप्ति कांई पौद्गलिक सूत्रनी नथी, आत्मानी छे; सूत्र ज्ञप्तिना स्वरूपभूत नथी, वधारानी वस्तु अर्थात् उपाधि छे; कारण के सूत्र न होय त्यां पण ज्ञप्ति तो होय छे. माटे जो सूत्रने न गणीए तो ‘ज्ञप्ति’ ज बाकी रहे छे;) अने ते ( – ज्ञप्ति) केवळीने अने श्रुतकेवळीने आत्म -अनुभवनमां तुल्य ज छे. माटे ज्ञानमां श्रुत -उपाधिकृत भेद नथी. ३४.
५८प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. स्यात्कार = ‘स्यात्’ शब्द. ( स्यात् = कथंचित्; कोई अपेक्षाथी. )
२. ज्ञप्ति = जाणवुं ते; जाणवानी क्रिया; जाणनक्रिया.