यदि खल्वसंभावितभावं संभावितभावं च पर्यायजातमप्रतिघविजृम्भिताखण्डित- प्रतापप्रभुशक्तितया प्रसभेनैव नितान्तमाक्रम्याक्रमसमर्पितस्वरूपसर्वस्वमात्मानं प्रति नियतं ज्ञानं न करोति, तदा तस्य कुतस्तनी दिव्यता स्यात् । अतः काष्ठाप्राप्तस्य परिच्छेदस्य सर्व- मेतदुपपन्नम् ।।३९।। अथासद्भूतपर्यायाणां वर्तमानज्ञानप्रत्यक्षत्वं दृढयति — जइ पच्चक्खमजादं पज्जायं पलयिदं च णाणस्स ण हवदि वा यदि प्रत्यक्षो न भवति । स कः । अजातपर्यायो भाविपर्यायः । न केवलं भाविपर्यायः प्रलयितश्च वा । कस्य । ज्ञानस्य । तं णाणं दिव्वं ति हि के परूवेंति तद्ज्ञानं दिव्यमिति के प्ररूपयन्ति, न केऽपीति । तथा हि — यदि वर्तमानपर्यायवदतीतानागतपर्यायं ज्ञानं कर्तृ क्रमकरणव्यवधान- रहितत्वेन साक्षात्प्रत्यक्षं न करोति, तर्हि तत् ज्ञानं दिव्यं न भवति । वस्तुतस्तु ज्ञानमेव न भवतीति । यथायं केवली परकीयद्रव्यपर्यायान् यद्यपि परिच्छित्तिमात्रेण जानाति, तथापि निश्चयनयेन सहजानन्दैकस्वभावे स्वशुद्धात्मनि तन्मयत्वेन परिच्छित्तिं करोति, तथा निर्मलविवेकिजनोऽपि यद्यपि व्यवहारेण परकीयद्रव्यगुणपर्यायपरिज्ञानं करोति, तथापि निश्चयेन निर्विकारस्वसंवेदनपर्याये विषयत्वात्पर्यायेण परिज्ञानं करोतीति सूत्रतात्पर्यम् ।।३९।। अथातीतानागतसूक्ष्मादिपदार्थानिन्द्रियज्ञानं
अन्वयार्थः — [यदि वा] जो [अजातः पर्यायः] अनुत्पन्न पर्याय [च] तथा [प्रलयितः] नष्ट पर्याय [ज्ञानस्य] ज्ञानने (केवळज्ञानने) [प्रत्यक्षः न भवति] प्रत्यक्ष न होय, [तत् ज्ञानं] तो ते ज्ञानने [दिव्यं इति हि] ‘दिव्य’ [के प्ररूपयन्ति] कोण प्ररूपे?
टीकाः — जेमणे हयाती अनुभवी नथी तथा जेमणे हयाती अनुभवी लीधी छे एवा (अनुत्पन्न अने नष्ट) पर्यायमात्रने जो ज्ञान पोतानी निर्विघ्न खीलेली, अखंडित प्रतापवाळी, प्रभु शक्ति (-महा सामर्थ्य) वडे जोरथी अत्यंत आक्रमीने (-पहोंची वळीने), ते पर्यायो पोताना स्वरूपसर्वस्वने अक्रमे अर्पे ( – एकी साथे ज्ञानमां जणावे) ए रीते तेमने पोताना प्रति नियत न करे ( – पोतामां निश्चित न करे, प्रत्यक्ष न जाणे), तो ते ज्ञाननी दिव्यता शी? आथी (एम कह्युं के) पराकाष्ठाने पहोंचेला ज्ञानने आ बधुं उपपन्न ( – योग्य) छे.
भावार्थः — अनंत महिमावंत केवळज्ञाननी ए दिव्यता छे के ते अनंत द्रव्योना समस्त पर्यायोने (अतीत ने अनागत पर्यायोने पण) संपूर्णपणे एक ज समये प्रत्यक्ष जाणे छे. ३९.