Pravachansar-Gujarati (English transliteration).

< Previous Page   Next Page >


Page 120 of 513
PDF/HTML Page 151 of 544

 

यदायमात्मा दुःखस्य साधनीभूतां द्वेषरूपामिन्द्रियार्थानुरागरूपां चाशुभोपयोग- भूमिकामतिक्रम्य देवगुरुयतिपूजादानशीलोपवासप्रीतिलक्षणं धर्मानुरागमङ्गीकरोति तदेन्द्रिय- सुखस्य साधनीभूतां शुभोपयोगभूमिकामधिरूढोऽभिलप्येत ।।६९।। भूतम् अविच्छिदं मणुवदेवपदिभावं यथा पूर्वमर्हदवस्थायां मनुजदेवेन्द्रादयः समवशरणे समागत्य नमस्कुर्वन्ति तेन प्रभुत्वं भवति, तदतिक्रान्तत्वादतिक्रान्तमनुजदेवपतिभावम् पुनश्च किंविशिष्टम् अपुणब्भावणिबद्धं द्रव्यक्षेत्रादिपञ्चप्रकारभवाद्विलक्षणः शुद्धबुद्धैकस्वभावनिजात्मोपलम्भलक्षणो योऽसौ मोक्षस्तस्याधीनत्वादपुनर्भावनिबद्धमिति भावः ।।।। एवं नमस्कारमुख्यत्वेन गाथाद्वयं गतम् इति गाथाष्टकेन पञ्चमस्थलं ज्ञातव्यम् एवमष्टादशगाथाभिः स्थलपञ्चके न सुखप्रपञ्चनामान्तराधिकारो गतः इति पूर्वोक्तप्रकारेण ‘एस सुरासुर’ इत्यादि चतुर्दशगाथाभिः पीठिका गता, तदनन्तरं सप्तगाथाभिः सामान्यसर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथाभिः ज्ञानप्रपञ्चः, तदनन्तर- मष्टादशगाथाभिः सुखप्रपञ्च इति समुदायेन द्वासप्ततिगाथाभिरन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारः समाप्तः ।। इत ऊर्द्ध्वं पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्डिकाचतुष्टयाभिधानोऽधिकारः प्रारभ्यते तत्र पञ्चविंशतिगाथामध्ये प्रथमं तावच्छुभाशुभविषये मूढत्वनिराकरणार्थं ‘देवदजदिगुरु’ इत्यादि दशगाथापर्यन्तं प्रथमज्ञानकण्डिका कथ्यते तदनन्तरमाप्तात्मस्वरूपपरिज्ञानविषये मूढत्वनिराकरणार्थं ‘चत्ता पावारंभं’ इत्यादि सप्तगाथापर्यन्तं द्वितीयज्ञानकण्डिका अथानन्तरं द्रव्यगुणपर्यायपरिज्ञानविषये मूढत्वनिराक रणार्थं ‘दव्वादीएसु’ इत्यादि गाथाषट्क पर्यन्तं तृतीयज्ञानक ण्डिका तदनन्तरं स्वपर- तत्त्वपरिज्ञानविषये मूढत्वनिराकरणार्थं ‘णाणप्पगं’ इत्यादि गाथाद्वयेन चतुर्थज्ञानकण्डिका इति ज्ञानकण्डिकाचतुष्टयाभिधानाधिकारे समुदायपातनिका अथेदानीं प्रथमज्ञानकण्डिकायां स्वतन्त्र- व्याख्यानेन गाथाचतुष्टयं, तदनन्तरं पुण्यं जीवस्य विषयतृष्णामुत्पादयतीति कथनरूपेण गाथाचतुष्टयं, तदनन्तरमुपसंहाररूपेण गाथाद्वयं, इति स्थलत्रयपर्यन्तं क्रमेण व्याख्यानं क्रियते तद्यथा --अथ यद्यपि पूर्वं गाथाषट्केनेन्द्रियसुखस्वरूपं भणितं तथापि पुनरपि तदेव विस्तरेण कथयन् सन् तत्साधकं शुभोपयोगं प्रतिपादयति, अथवा द्वितीयपातनिका --पीठिकायां यच्छुभोपयोगस्वरूपं सूचितं तस्येदानीमिन्द्रियसुखविशेषविचारप्रस्तावे तत्साधकत्वेन विशेषविवरणं करोति ---देवदजदिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु देवतायतिगुरुपूजासु चैव दाने वा सुशीलेषु उववासादिसु रत्तो तथैवोपवासादिषु च रक्त आसक्तः अप्पा जीवः सुहोवओगप्पगो शुभोपयोगात्मको भण्यते इति तथाहिदेवता

TIkAjyAre A AtmA dukhanA sAdhanabhUt evI dveSharUp tathA indriyaviShayanA anurAgarUp ashubhopayogabhUmikAne oLangI jaIne, dev -guru -yatinI pUjA, dAn, shIl ane upavAsAdikanI prItisvarUp dharmAnurAgane angIkRut kare chhe, tyAre te indriyasukhanA sAdhanabhUt shubhopayogabhUmikAmAn ArUDh kahevAy chhe.

120pravachanasAr[ bhagavAnashrIkundakund-