Pravachansar-Gujarati (English transliteration).

< Previous Page   Next Page >


Page 166 of 513
PDF/HTML Page 197 of 544

 

लघुगुणद्वारेण प्रतिसमयसमुदीयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिः गुणात्मकः स्वभावपर्यायः यथैव च पटे रूपादीनां स्वपरप्रत्ययप्रवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्यो- पदर्शितस्वभावविशेषानेकत्वापत्तिर्गुणात्मको विभावपर्यायः, तथैव च समस्तेष्वपि द्रव्येषु रूपादीनां ज्ञानादीनां वा स्वपरप्रत्ययप्रवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभाव- विशेषानेकत्वापत्तिर्गुणात्मको विभावपर्यायः इयं हि सर्वपदार्थानां द्रव्यगुणपर्यायस्वभाव- प्रकाशिका पारमेश्वरी व्यवस्था साधीयसी, न पुनरितरा यतो हि बहवोऽपि पर्याय- विणिच्छयाधिगमं परमार्थविनिश्चयाधिगमं सम्यक्त्वमिति परमार्थविनिश्चयाधिगमशब्देन सम्यक्त्वं कथं भण्यत इति चेत्परमोऽर्थः परमार्थः शुद्धबुद्धैकस्वभावः परमात्मा, परमार्थस्य विशेषेण संशयादिरहितत्वेन निश्चयः परमार्थविनिश्चयरूपोऽधिगमः शङ्काद्यष्टदोषरहितश्च यः परमार्थतोऽर्थावबोधो यस्मात्सम्यक्त्वात्तत् परमार्थविनिश्चयाधिगमम् अथवा परमार्थविनिश्चयोऽनेकान्तात्मकपदार्थसमूह- स्तस्याधिगमो यस्मादिति ।।१०।। अथ पदार्थस्य द्रव्यगुणपर्यायस्वरूपं निरूपयतिअत्थो खलु दव्वमओ अर्थो ज्ञानविषयभूतः पदार्थः खलु स्फु टं द्रव्यमयो भवति कस्मात् तिर्यक्- सामान्योद्ध्र्वतासामान्यलक्षणेन द्रव्येण निष्पन्नत्वात् तिर्यक्सामान्योर्द्ध्वतासामान्यलक्षणं कथ्यते एककाले नानाव्यक्तिगतोऽन्वयस्तिर्यक्सामान्यं भण्यते तत्र दृष्टान्तो यथानानासिद्धजीवेषु सिद्धोऽयं सिद्धोऽयमित्यनुगताकारः सिद्धजातिप्रत्ययः नानाकालेष्वेकव्यक्तिगतोन्वय ऊर्ध्वतासामान्यं भण्यते तत्र दृष्टांतः यथाय एव केवलज्ञानोत्पत्तिक्षणे मुक्तात्मा द्वितीयादिक्षणेष्वपि स एवेति प्रतीतिः अथवा नानागोशरीरेषु गौरयं गौरयमिति गोजातिप्रतीतिस्तिर्यक्सामान्यम् यथैव चैकस्मिन् पुरुषे बालकुमाराद्यवस्थासु स एवायं देवदत्त इति प्रत्यय ऊर्ध्वतासामान्यम् दव्वाणि गुणप्पगाणि भणिदाणि द्रव्याणि गुणात्मकानि भणितानि अन्वयिनो गुणा अथवा सहभुवो गुणा इति गुणलक्षणम् यथा अनन्तज्ञानसुखादिविशेषगुणेभ्यस्तथैवागुरुलघुकादिसामान्यगुणेभ्यश्चाभिन्नत्वाद्गुणात्मकं भवति सिद्धजीवद्रव्यं, तथैव स्वकीयस्वकीयविशेषसामान्यगुणेभ्यः सकाशादभिन्नत्वात् सर्वद्रव्याणि गुणात्मकानि भवन्ति तेहिं पुणो पज्जाया तैः पूर्वोक्तलक्षणैर्द्रव्यैर्गुणैश्च पर्याया भवन्ति व्यतिरेकिणः पर्याया अथवा क्रमभुवः पर्याया इति पर्यायलक्षणम् यथैकस्मिन् मुक्तात्मद्रव्ये किंचिदूनचरम-


laghuguN dvArA pratisamay pragaTatI ShaTsthAnapatit hAnivRuddhirUp anekapaNAnI anubhUti te guNAtmak svabhAvaparyAy chhe; ane jem paTamAn, rUpAdikane sva -paranA kAraNe pravartatI pUrvottar avasthAmAn thatA tAratamyane lIdhe jovAmAn AvatA svabhAvavisheShorUp anekapaNAnI Apatti te guNAtmak vibhAvaparyAy chhe, tem samasta dravyomAn, rUpAdikane ke gnAnAdikane sva -paranA kAraNe pravartatI pUrvottar avasthAmAn thatA tAratamyane lIdhe jovAmAn AvatA svabhAvavisheShorUp anekapaNAnI Apatti te guNAtmak vibhAvaparyAy chhe.

kharekhar A, sarva padArthonA dravyaguNaparyAyasvabhAvanI prakAshak pArameshvarI (parameshvare kahelI) vyavasthA bhalI -uttam -pUrNa -yogya chhe, bIjI koI nahi; kAraN ke ghaNAy

166pravachanasAr[ bhagavAnashrIkundakund-