इह हि यथा किलैकस्त्र्यणुकः समानजातीयोऽनेकद्रव्यपर्यायो विनश्यत्यन्यश्चतुरणुकः प्रजायते, ते तु त्रयश्चत्वारो वा पुद्गला अविनष्टानुत्पन्ना एवावतिष्ठन्ते; तथा सर्वेऽपि समानजातीया द्रव्यपर्याया विनश्यन्ति प्रजायन्ते च, समानजातीनि द्रव्याणि त्वविनष्टानु- त्पन्नान्येवावतिष्ठन्ते । यथा चैको मनुष्यत्वलक्षणोऽसमानजातीयो द्रव्यपर्यायो विनश्यत्यन्य- स्त्रिदशत्वलक्षणः प्रजायते, तौ च जीवपुद्गलौ अविनष्टानुत्पन्नावेवावतिष्ठेते; तथा सर्वेऽप्यसमानजातीया द्रव्यपर्याया विनश्यन्ति प्रजायन्ते च, असमानजातीनि द्रव्याणि त्वविनष्टानुत्पन्नान्येवावतिष्ठन्ते । एवमात्मना ध्रुवाणि द्रव्यपर्यायद्वारेणोत्पादव्ययीभूतान्युत्पाद- व्ययध्रौव्याणि द्रव्याणि भवन्ति ।।१०३।। परमात्मावाप्तिरूपः स्वभावद्रव्यपर्यायः । पज्जओ वयदि अण्णो पर्यायो व्येति विनश्यति । कथंभूतः । अन्यः पूर्वोक्तमोक्षपर्यायाद्भिन्नो निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपस्यैव मोक्षपर्यायस्योपादानकारणभूतः । कस्य संबन्धी पर्यायः । दव्वस्स परमात्मद्रव्यस्य । तं पि दव्वं तदपि परमात्मद्रव्यं णेव पणट्ठं ण उप्पण्णं शुद्धद्रव्यार्थिकनयेन नैव नष्टं न चोत्पन्नम् । अथवा संसारिजीवापेक्षया देवादिरूपो विभावद्रव्यपर्यायो जायते मनुष्यादिरूपो विनश्यति तदेव जीवद्रव्यं निश्चयेन न चोत्पन्नं न च विनष्टं, पुद्गलद्रव्यं वा द्वयणुकादिस्क न्धरूपस्वजातीयविभावद्रव्यपर्यायाणां विनाशोत्पादेऽपि निश्चयेन न चोत्पन्नं न च विनष्टमिति । ततः स्थितं यतः कारणादुत्पादव्ययध्रौव्यरूपेण द्रव्यपर्यायाणां विनाशोत्पादेऽपि द्रव्यस्य
TIkA — ahIn (vishvamAn) jem ek tri -aNuk samAnajAtIy anekadravyaparyAy vinaShTa thAy chhe ane bIjo *chaturaNuk (samAnajAtIy anekadravyaparyAy) utpanna thAy chhe parantu te traN ke chAr pudgalo (paramANuo) to avinaShTa ane anutpanna ja rahe chhe ( – dhruv chhe), tem badhAy samAnajAtIy dravyaparyAyo vinaShTa thAy chhe ane utpanna thAy chhe parantu samAnajAti dravyo to avinaShTa ane anutpanna ja rahe chhe ( – dhruv chhe).
vaLI jem ek manuShyatvasvarUp asamAnajAtIy dravyaparyAy vinaShTa thAy chhe ane bIjo devatvasvarUp (asamAnajAtIy dravyaparyAy) utpanna thAy chhe parantu te jIv ne pudgal to avinaShTa ane anutpanna ja rahe chhe, tem badhAy asamAnajAtIy dravyaparyAyo vinaShTa thAy chhe ane utpanna thAy chhe parantu asamAnajAti dravyo to avinaShTa ane anutpanna ja rahe chhe.
A pramANe potAthI (arthAt 1dravyapaNe) dhruv ane dravyaparyAyo dvArA utpAdavyayarUp evAn 1dravyo utpAd -vyay -dhrauvya chhe. 103. *chaturaNuk = chAr aNuono (paramANuono) banelo skandh 1. ‘dravya’ shabda mukhyapaNe be arthamAn vaparAy chhe (1) ek to, sAmAnyavisheShanA pinDane arthAt