स्पर्शिन्याः प्रतिक्षणं तेन तेन स्वभावेन परिणमनात् । द्रव्यस्वभावभूत एव तावत्परिणामः । स त्वस्तित्वभूतद्रव्यवृत्त्यात्मकत्वात्सदविशिष्टो द्रव्यविधायको गुण एवेति सत्ताद्रव्ययो- र्गुणगुणिभावः सिद्धयति ।।१०९।। अथ गुणगुणिनोर्नानात्वमुपहन्ति — णत्थि गुणो त्ति व कोई पज्जाओ त्तीह वा विणा दव्वं ।
दव्वत्तं पुण भावो तम्हा दव्वं सयं सत्ता ।।११०।। च गुणी भवतीति प्रतिपादयति — जो खलु दव्वसहावो परिणामो यः खलु स्फु टं द्रव्यस्य स्वभावभूतः परिणामः पञ्चेन्द्रियविषयानुभवरूपमनोव्यापारोत्पन्नसमस्तमनोरथरूपविकल्पजालाभावे सति यश्चिदा- नन्दैकानुभूतिरूपः स्वस्थभावस्तस्योत्पादः, पूर्वोक्तविकल्पजालविनाशो व्ययः, तदुभयाधारभूतजीवत्वं ध्रौव्यमित्युक्तलक्षणोत्पादव्ययध्रौव्यात्मकजीवद्रव्यस्य स्वभावभूतो योऽसौ परिणामः सो गुणो स गुणो भवति । स परिणामः कथंभूतः सन्गुणो भवति । सदविसिट्ठो सतोऽस्तित्वादविशिष्टोऽभिन्नस्तदुत्पादादित्रयं तिष्ठत्यस्तित्वं चैकं तिष्ठत्यस्तित्वेन सह कथमभिन्नो भवतीति चेत् । ‘‘उत्पादव्ययध्रौव्ययुक्तं सत्’’ इति वचनात् । एवं सति सत्तैव गुणो भवतीत्यर्थः । इति गुणव्याख्यानं गतम् । सदवट्ठिदं सहावे दव्वं ति सदवस्थितं स्वभावे द्रव्यमिति । द्रव्यं परमात्मद्रव्यं भवति । किं कर्तृ । सदिति । केन । अभेद- नयेन । कथंभूतम् । सत् अवस्थितम् । क्व । उत्पादव्ययध्रौव्यात्मकस्वभावे । जिणोवदेसोयं अयं जिनोपदेश इति ‘सदवट्ठिदं सहावे दव्वं दव्वस्स जो हु परिणामो’ इत्यादिपूर्वसूत्रे यदुक्तं तदेवेदं व्याख्यानम्, गुणकथनं पुनरधिकमिति तात्पर्यम् । यथेदं जीवद्रव्ये गुणगुणिनोर्व्याख्यानं hovAthI (te vRutti arthAt astitva) pratikShaNe te te svabhAve pariName chhe.
(A pramANe) tyAre pratham to, dravyanA svabhAvabhUt ja pariNAm chhe; ane te (utpAdavyayadhrauvyAtmak pariNAm), astitvabhUt evI dravyanI vRuttisvarUp hovAne lIdhe, ‘sat’ thI avishiShTa evo, dravyavidhAyak ( – dravyane rachanAro) guN ja chhe. — A rIte sattA ne dravyanun guN -guNIpaNun siddha thAy chhe. 109.
have guN ne guNInA anekapaNAnun khanDan kare chhe —
214pravachanasAr[ bhagavAnashrIkundakund-