उपरतपापत्वेन, सर्वधर्मिमध्यस्थत्वेन, गुणग्रामोपसेवित्वेन च सम्यग्दर्शनज्ञानचारित्र- यौगपद्यपरिणतिनिर्वृत्तैकाग्र्यात्मकसुमार्गभागी, स श्रमणः स्वयं परस्य मोक्षपुण्यायतनत्वाद- विपरीतफलकारणं कारणमविपरीतं प्रत्येयम् ।।२५९।। शास्त्रेषु, किह ते तप्पडिबद्धा पुरिसा णित्थारगा होंति कथं ते तत्प्रतिबद्धा विषयकषायप्रतिबद्धाः पुरुषा निस्तारकाः संसारोत्तारका दातॄणाम्, न कथमपीति । एतदुक्तं भवति — विषयकषायास्तावत्पाप- स्वरूपास्तद्वन्तः पुरुषा अपि पापा एव, ते च स्वकीयभक्तानां दातॄणां पुण्यविनाशका एवेति ।।२५८।। अथ पात्रभूततपोधनलक्षणं कथयति — उपरतपापत्वेन, सर्वधार्मिकसमदर्शित्वेन, गुणग्रामसेवकत्वेन च स्वस्य मोक्षकारणत्वात्परेषां पुण्यकारणत्वाच्चेत्थंभूतगुणयुक्तः पुरुषः सम्यग्दर्शनज्ञानचारित्रैकाग्यलक्षण- निश्चयमोक्षमार्गस्य भाजनं भवतीति ।।२५९।। अथ तेषामेव पात्रभूततपोधनानां प्रकारान्तरेण लक्षणमुपलक्षयति — शुद्धोपयोगशुभोपयोगपरिणतपुरुषाः पात्रं भवन्तीति । तद्यथा — निर्विकल्प- समाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतरागचारित्रलक्षणशुद्धोपयोगयुक्ताः, कदाचित्पुन- र्मोहद्वेषाशुभरागरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च
anvayArtha — [उपरतपापः] jene pAp virAm pAmyun chhe, [सर्वेषु धार्मिकेषु समभावः] je sarva dhArmiko pratye samabhAvavALo chhe ane [गुणसमितितोपसेवी] je guNasamudAyane sevanAro chhe [सः पुरुषः] te puruSh [सुमार्गस्य भागी भवति] sumArgavant chhe.
TIkA — pAp virAm pAmyun hovAthI, sarva dharmIo pratye pote madhyastha hovAthI ane guNasamUhane sevato hovAthI je shramaN samyagdarshanagnAnachAritranA yugapadapaNArUp pariNatithI rachAyelI ekAgratAsvarUp *sumArgano bhAgI chhe, te shramaN potAne ane parane mokShanun ane puNyanun Ayatan (sthAn) chhe tethI te (shramaN) aviparIt phaLanun kAraN evun ‘aviparIt kAraN’ chhe em pratIti karavI. 259. *sumArgano bhAgI = sumArgashALI; sumArgavant; sumArganun bhAjan.