अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं । अंजलिकरणं पणमं भणिदमिह गुणाधिगाणं हि ।।२६२।।
श्रमणानां स्वतोऽधिकगुणानामभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणाम- प्रवृत्तयो न प्रतिषिद्धाः ।।२६२।। त्रयानन्तरं गुणाद्गुणविशेषात् विसेसिदव्वो तेन आचार्येण स तपोधनो रत्नत्रयभावनावृद्धिकारण- क्रियाभिर्विशेषितव्यः त्ति उवदेसो इत्युपदेशः सर्वज्ञगणधरदेवादीनामिति ।।२६१।। अथ तमेव विशेषं कथयति । भणिदं भणितं कथितं इह अस्मिन्ग्रन्थे । केषां संबन्धी । गुणाधिगाणं हि गुणाधिकतपोधनानां हि स्फु टम् । किं भणितम् । अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं अंजलिकरणं पणमं अभ्युत्थान- ग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामादिकम् । अभिमुखगमनमभ्युत्थानम्, ग्रहणं स्वीकारः, उपासनं शुद्धात्मभावनासहकारिकारणनिमित्तं सेवा, तदर्थमेवाशनशयनादिचिन्ता पोषणम्, भेदाभेद- रत्नत्रयगुणप्रकाशनं सत्कारः, बद्धाञ्जलिनमस्कारोऽञ्जलिकरणम्, नमोऽस्त्वितिवचनव्यापारः प्रणाम इति ।।२६२।। अथाभ्यागतानां तदेवाभ्युत्थानादिकं प्रकारान्तरेण निर्दिशति — अब्भुट्ठेया यद्यपि चारित्रगुणेनाधिका न भवन्ति, तपसा वा, तथापि सम्यग्ज्ञानगुणेन ज्येष्ठत्वाच्छ्रुतविनयार्थमभ्युत्थेयाः अभ्युत्थानयोग्या भवन्ति । के ते । समणा श्रमणा निर्ग्रन्थाचार्याः । किंविशिष्टाः । सुत्तत्थविसारदा विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वप्रभृत्यनेकान्तात्मकपदार्थेषु वीतरागसर्वज्ञप्रणीतमार्गेण प्रमाणनय- निक्षेपैर्विचारचतुरचेतसः सूत्रार्थविशारदाः । न केवलमभ्युत्थेयाः, उवासेया परमचिज्जोतिःपरमात्म-
anvayArtha — [गुणाधिकानां हि] guNAdhik (guNe adhik shramaNo) pratye [अभ्युत्थानं] abhyutthAn, [ग्रहणं] grahaN (AdarathI svIkAr), [उपासनं] upAsan, [पोषणं] poShaN (temanAn ashan, shayan vagerenI chintA), [सत्कारः] satkAr (guNaprashansA), [अञ्जलिकरणं] anjalikaraN (vinayathI hAth joDavA) [च] ane [प्रणामः] praNAm karavAnun [इह] ahIn [भणितम्] kahyun chhe.
TIkA — shramaNone potAnAthI adhik guNavALA (shramaNo) pratye abhyutthAn, grahaN, upAsan, poShaN, satkAr, anjalikaraN ane praNAmarUp pravRuttio niShiddha nathI. 262.