अथ क्रमकृतप्रवृत्त्या ज्ञानस्य सर्वगतत्वं न सिद्धयतीति निश्चिनोति — उपज्जदि जदि णाणं कमसो अट्ठे पडुच्च णाणिस्स ।
ज्ञेयभूतानां परिच्छेदका ग्राहकाः । अखण्डैकप्रतिभासमयं यन्महासामान्यं तत्स्वभावमात्मानं योऽसौ प्रत्यक्षं न जानाति स पुरुषः प्रतिभासमयेन महासामान्येन ये व्याप्ता अनन्तज्ञानविशेषास्तेषां विषयभूताः येऽनन्तद्रव्यपर्यायास्तान् कथं जानाति, न कथमपि । अथ एतदायातम् — यः आत्मानं न जानाति स सर्वं न जानातीति । तथा चोक्तम् --‘‘एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः ।।’’ अत्राह शिष्य : – आत्मपरिज्ञाने सति सर्वपरिज्ञानं भवतीत्यत्र व्याख्यातं, तत्र तु पूर्वसूत्रे भणितं सर्वपरिज्ञाने सत्यात्मपरिज्ञानं भवतीति । यद्येवं तर्हि छद्मस्थानां सर्वपरिज्ञानं नास्त्यात्मपरिज्ञानं कथं भविष्यति, आत्मपरिज्ञानाभावे चात्मभावना कथं, तदभावे केवलज्ञानोत्पत्तिर्नास्तीति । परिहारमाह — परोक्षप्रमाणभूतश्रुतज्ञानेन सर्वपदार्था ज्ञायन्ते । कथमिति चेत् --लोकालोकादिपरिज्ञानं व्याप्तिज्ञानरूपेण छद्मस्थानामपि विद्यते, तच्च व्याप्तिज्ञानं परोक्षाकारेण केवलज्ञानविषयग्राहकं कथंचिदात्मैव भण्यते ।
bhāvārthaḥ — 48 ne 49mī gāthāmān em darshāvyun ke je sarvane jāṇato nathī te potāne jāṇato nathī, ane je potāne jāṇato nathī te sarvane jāṇato nathī. potānun gnān ane sarvanun gnān ekīsāthe ja hoy chhe. pote ane sarva — e bemānthī ekanun gnān hoy ane bījānun na hoy e asambhavit chhe.
ā kathan ekadesh gnānanī apekṣhāthī nathī parantu pūrṇa gnānanī (kevaḷagnānanī) apekṣhāthī chhe. 49.
have krame pravartatā gnānanun sarvagatapaṇun siddha thatun nathī em nakkī kare chheḥ —
anvayārthaḥ — [यदि] jo [ज्ञानिनः ज्ञानं ] ātmānun gnān [क्रमशः] kramashaḥ [अर्थान् प्रतीत्य] padārthone avalambīne [उत्पद्यते] utpanna thatun hoy [तद् ] to te (gnān) [न एव नित्यं भवति] nitya nathī, [न क्षायिकं ] kṣhāyik nathī, [न एव सर्वगतम् ] sarvagat nathī.