Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 87 of 513
PDF/HTML Page 118 of 544

 

kahānajainashāstramāḷā ]    gnānatattva    -pragnāpan    87    

क्षायिकं हि ज्ञानमतिशयास्पदीभूतपरममाहात्म्यम् यत्तु युगपदेव सर्वार्थानालम्ब्य प्रवर्तते ज्ञानं तट्टङ्कोत्कीर्णन्यायावस्थितसमस्तवस्तुज्ञेयाकारतयाधिरोपितनित्यत्वं प्रतिपन्नसमस्त- व्यक्तित्वेनाभिव्यक्तस्वभावभासिक्षायिकभावं त्रैकाल्येन नित्यमेव विषमीकृतां सकलामपि सर्वार्थसंभूतिमनन्तजातिप्रापितवैचित्र्यां परिच्छिन्ददक्रमसमाक्रान्तानन्तद्रव्यक्षेत्रकालभावतया प्रकटीकृताद्भुतमाहात्म्यं सर्वगतमेव स्यात् ।।५१।। कृत्वा अट्ठे पडुच्च ज्ञेयार्थानाश्रित्य कस्य णाणिस्स ज्ञानिनः आत्मनः तं णेव हवदि णिच्चं उत्पत्तिनिमित्तभूतपदार्थविनाशे तस्यापि विनाश इति नित्यं न भवति ण खाइगं ज्ञानावरणीय- कर्मक्षयोपशमाधीनत्वात् क्षायिकमपि न भवति णेव सव्वगदं यत एव पूर्वोक्तप्रकारेण पराधीनत्वेन नित्यं न भवति, क्षयोपशमाधीनत्वेन क्षायिकं च न भवति, तत एव युगपत्समस्तद्रव्यक्षेत्रकालभावानां परिज्ञानसामर्थ्याभावात्सर्वगतं न भवति अत एतत्स्थितं यद्ज्ञानं क्रमेणार्थान् प्रतीत्य जायते तेन सर्वज्ञो न भवति इति ।।५०।। अथ युगपत्परिच्छित्तिरूपज्ञानेनैव सर्वज्ञो भवतीत्यावेदयति ---जाणदि जानाति किं कर्तृ जोण्हं जैनज्ञानम् कथम् जुगवं युगपदेकसमये अहो हि णाणस्स माहप्पं अहो हि स्फु टं जैनज्ञानस्य माहात्म्यं पश्यताम् किं जानाति अर्थमित्यध्याहारः कथंभूतम् तिक्कालणि- च्चविसयं त्रिकालविषयं त्रिकालगतं नित्यं सर्वकालम् पुनरपि किंविशिष्टम् सयलं समस्तम् पुनरपि कथंभूतम् सव्वत्थसंभवं सर्वत्र लोके संभवं समुत्पन्नं स्थितम् पुनश्च किंरूपम् चित्तं नानाजातिभेदेन विचित्रमिति तथा हि --युगपत्सकलग्राहकज्ञानेन सर्वज्ञो भवतीति ज्ञात्वा किं कर्तव्यम् ज्योतिष्क-

ṭīkāḥkharekhar kṣhāyik gnānanun, sarvotkr̥uṣhṭatānā sthānabhūt param māhātmya chhe; ane je gnān ekīsāthe ja sarva padārthone avalambīne pravarte chhe te gnānpotāmān samasta vastuonā gneyākāro *ṭaṅkotkīrṇanyāye sthit hovāthī jeṇe nityatva prāpta karyun chhe ane samasta vyaktio prāpta karī hovāthī jeṇe svabhāvaprakāshak kṣhāyikabhāv pragaṭ karyo chhe evuntraṇe kāḷe sadāy viṣham rahetā (asamānajātipaṇe pariṇamatā) ane anant prakārone līdhe vichitratāne pāmelā evā ākhāy sarva padārthonā samūhane jāṇatun thakun, akrame anant dravya -kṣhetra -kāḷ -bhāvane pahoñchī vaḷatun hovāthī jeṇe adbhut māhātmya pragaṭ karyun chhe evun sarvagat ja chhe.

bhāvārthaḥakrame pravartatun gnān ek gneyathī bījā gney pratye palaṭātun nahi hovāthī nitya chhe, potānī samasta shaktio khulī gaī hovāthī kṣhāyik chhe; āvā akramik gnānavāḷo puruṣh ja sarvagna hoī shake. sarvagnanā e gnānanun koī param adbhut māhātmya chhe. 51.

*ṭaṅkotkīrṇanyāye = paththaramān ṭāṅkaṇāthī korelī ākr̥uti māphak