पृथग्भवत् सत्तामन्तरेणात्मानं धारयत्तावन्मात्रप्रयोजनां सत्तामेवास्तं गमयेत् । स्वरूपतस्तु-
सद्भवद्ध्र्रौव्यस्य संभवादात्मानं धारयद्द्रव्यमुद्गच्छेत्; सत्तातोऽपृथग्भूत्वा चात्मानं धारयत्ता-
वन्मात्रप्रयोजनां सत्तामुद्गमयेत् । ततः स्वयमेव द्रव्यं सत्त्वेनाभ्युपगन्तव्यं, भावभाव-
वतोरपृथक्त्वेनानन्यत्वात् ।।१०५।।
सत्ताद्रव्ययोरभेदविषये पुनरपि प्रकारान्तरेण युक्तिं दर्शयति — ण हवदि जदि सद्दव्वं परमचैतन्यप्रकाशरूपेण
स्वरूपेण स्वरूपसत्तास्तित्वगुणेन यदि चेत् सन्न भवति । किं कर्तृ । परमात्मद्रव्यं । तदा असद्धुवं होदि
असदविद्यमानं भवति ध्रुवं निश्चितम् । अविद्यमानं सत् तं कधं दव्वं तत्परमात्मद्रव्यं कथं भवति, किंतु
नैव । स च प्रत्यक्षविरोधः । कस्मात् । स्वसंवेदनज्ञानेन गम्यमानत्वात् । अथाविचारितरमणीयन्यायेन
सत्तागुणाभावेऽप्यस्तीति चेत्, तत्र विचार्यते – यदि केवलज्ञानदर्शनगुणाविनाभूतस्वकीयस्वरूपास्ति-
त्वात्पृथग्भूता तिष्ठति तदा स्वरूपास्तित्वं नास्ति, स्वरूपास्तित्वाभावे द्रव्यमपि नास्ति । अथवा
स्वकीयस्वरूपास्तित्वात्संज्ञालक्षणप्रयोजनादिभेदेऽपि प्रदेशरूपेणाभिन्नं तिष्ठति तदा संमतमेव । अत्रावसरे
सौगतमतानुसारी कश्चिदाह – सिद्धपर्यायसत्तारूपेण शुद्धात्मद्रव्यमुपचारेणास्ति, न च मुख्यवृत्त्येति ।
परिहारमाह — सिद्धपर्यायोपादानकारणभूतपरमात्मद्रव्याभावे सिद्धपर्यायसत्तैव न संभवति, वृक्षाभावे
फलमिव । अत्र प्रस्तावे नैयायिकमतानुसारी कश्चिदाह — हवदि पुणो अण्णं वा तत्परमात्मद्रव्यं भवति
पुनः किंतु सत्तायाः सकाशादन्यद्भिन्नं भवति पश्चात्सत्तासमवायात्सद्भवति । आचार्याः परिहारमाहुः —
सत्तासमवायात्पूर्वं द्रव्यं सदसद्वा, यदि सत्तदा सत्तासमवायो वृथा, पूर्वमेवास्तित्वं तिष्ठति; अथासत्तर्हि
pr̥uthak hoy to sattā sivāy paṇ pote ṭakatun ( – hayāt rahetun) thakun, 1eṭalun ja mātra jenun prayojan chhe evī sattāne ja asta kare.
parantu jo dravya svarūpathī ja sat hoy to — (1) dhrauvyanā sadbhāvane līdhe pote ṭakatun thakun, dravya udit thāy chhe (arthāt siddha thāy chhe); ane (2) sattāthī apr̥uthak rahīne pote ṭakatun ( – hayāt rahetun) thakun, eṭalun ja mātra jenun prayojan chhe evī sattāne udit kare chhe (arthāt siddha kare chhe).
māṭe dravya pote ja sattva (sattā) chhe em svīkāravun, kāraṇ ke bhāv ane 2bhāvavānanun apr̥uthakpaṇā vaḍe ananyapaṇun chhe. 105.
1. sattānun kārya eṭalun ja chhe ke te dravyane hayāt rākhe. jo dravya sattāthī bhinna rahīne paṇ hayāt rahe – ṭake, to pachhī sattānun prayojan ja rahetun nathī arthāt sattānā abhāvano prasaṅg āve chhe.
2. bhāvavān = bhāvavāḷun. [dravya bhāvavāḷun chhe ane sattā teno bhāv chhe. teo apr̥uthak chhe ( – pr̥uthak
nathī) te apekṣhāe ananya chhe ( – anya nathī). pr̥uthaktva ane anyatvano bhed je apekṣhāe chhe
te apekṣhā laīne temanā khās (judā) artho havenī gāthāmān kaheshe te artho ahīn lāgu na pāḍavā.
ahīn to ananyapaṇāne apr̥uthakpaṇānā arthamān ja samajavun.]