Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 254 of 513
PDF/HTML Page 285 of 544

 

पुद्गलजीवनिबद्धो धर्माधर्मास्तिकायकालाढयः
वर्तते आकाशे यो लोकः स सर्वकाले तु ।।१२८।।

अस्ति हि द्रव्यस्य लोकालोकत्वेन विशेषविशिष्टत्वं स्वलक्षणसद्भावात् स्वलक्षणं हि लोकस्य षड्द्रव्यसमवायात्मकत्वं, अलोकस्य पुनः केवलाकाशात्मकत्वम् तत्र सर्वद्रव्य- व्यापिनि परममहत्याकाशे यत्र यावति जीवपुद्गलौ गतिस्थितिधर्माणौ गतिस्थिती आस्कन्दत- स्तद्गतिस्थितिनिबन्धनभूतौ च धर्माऽधर्मावभिव्याप्यावस्थितौ, सर्वद्रव्यवर्तनानिमित्तभूतश्च कालो नित्यदुर्ललितस्तत्तावदाकाशं शेषाण्यशेषाणि द्रव्याणि चेत्यमीषां समवाय आत्मत्वेन भवतीत्यर्थः ।।१२७।। अथ लोकालोकरूपेण पदार्थस्य द्वैविध्यमाख्यातिपोग्गलजीवणिबद्धो अणु- स्कन्धभेदभिन्नाः पुद्गलास्तावत्तथैवामूर्तत्वातीन्द्रियज्ञानमयत्वनिर्विकारपरमानन्दैकसुखमयत्वादिलक्षणा जीवाश्चेत्थंभूतजीवपुद्गलैर्निबद्धः संबद्धो भृतः पुद्गलजीवनिबद्धः धम्माधम्मत्थिकायकालड्ढो धर्मा- धर्मास्तिकायौ च कालश्च धर्माधर्मास्तिकायकालास्तैराढयो भृतो धर्माधर्मास्तिकायकालाढयः जो यः एतेषां पञ्चानामित्थंभूतसमुदायो राशिः समूहः वट्टदि वर्तते कस्मिन् आगासे अनन्ता- नन्ताकाशद्रव्यस्य मध्यवर्तिनि लोकाकाशे सो लोगो स पूर्वोक्तपञ्चानां समुदायस्तदाधारभूतं लोकाकाशं चेति षड्द्रव्यसमूहो लोको भवति क्व सव्वकाले दु सर्वकाले तु तद्बहिर्भूतमनन्तानन्ताकाशमलोक इत्यभिप्रायः ।।१२८।। अथ द्रव्याणां सक्रियनिःक्रियत्वेन भेदं दर्शयतीत्येका पातनिका, द्वितीया तु जीवपुद्गलयोरर्थव्यञ्जनपर्यायौ द्वौ शेषद्रव्याणां तु

anvayārthaḥ[आकाशे] ākāshamān [यः] je bhāg [पुद्गलजीवनिबद्धः] jīv ne pudgalathī sanyukta [धर्माधर्मास्तिकायकालाढयः वर्तते] tathā dharmāstikāy, adharmāstikāy ne kāḷathī samr̥uddha chhe, [सः] te [सर्वकाले तु] sarva kāḷe [लोक :] lok chhe. (bākīnun ekalun ākāsh te alok chhe.)

ṭīkāḥkharekhar dravya lokapaṇe tathā alokapaṇe visheṣhavāḷun (bhedavāḷun) chhe, kāraṇ ke nij nij (bhinna) lakṣhaṇono sadbhāv chhe. lokanun svalakṣhaṇ ṣhaṭdravyasamavāyātmakapaṇun (chha dravyonā samudāyasvarūpapaṇun) chhe ane alokanun svalakṣhaṇ kevaḷ -ākāshātmakapaṇun (ekalā ākāshasvarūpapaṇun) chhe. tyān, sarva dravyomān vyāpanārā param mahān ākāshane viṣhe jyān jeṭalāmān gatisthiti dharmavāḷān jīv tathā pudgal gati -sthiti pāme chhe, (jyān jeṭalāmān) temane gati -sthitinā nimittabhūt dharma tathā adharma vyāpīne rahelān chhe ane (jyān jeṭalāmān) sarva dravyone vartanānā nimittabhūt kāḷ sadā vartyā kare chhe, te teṭalun ākāsh tathā bākīnān asheṣh (samasta) dravyoāṭalānno samudāy jenun *sva -paṇe svalakṣhaṇ chhe, potāpaṇunsvarūp chhe; tethī lokanā sva -paṇepotāpaṇesvarūpapaṇe ṣhaṭdravyasamudāy lokanun svalakṣhaṇ chhe.)

254pravachanasār[ bhagavānashrīkundakund-

* sva -paṇe = potāpaṇe; svarūpapaṇe. (ṣhaṭdravyasamudāy te ja lok chhe arthāt te ja lokanun sva -paṇun