नारकस्तिर्यङ्मनुष्यो देव इति किल पर्याया जीवानाम् । ते खलु नामकर्मपुद्गल- विपाककारणत्वेनानेकद्रव्यसंयोगात्मकत्वात् कुकूलाङ्गारादिपर्याया जातवेदसः क्षोदखिल्व- संस्थानादिभिरिव संस्थानादिभिरन्यथैव भूता भवन्ति ।।१५३।। नरनारकतिर्यग्देवरूपा अवस्थाविशेषाः । संठाणादीहिं अण्णहा जादा संस्थानादिभिरन्यथा जाताः, मनुष्यभवे यत्समचतुरस्रादिसंस्थानमौदारिकशरीरादिकं च तदपेक्षया भवान्तरेऽन्यद्विसद्रशं संस्थानादिकं भवति । तेन कारणेन ते नरनारकादिपर्याया अन्यथा जाता भिन्ना भण्यन्ते; न च शुद्धबुद्धैकस्वभावपरमात्मद्रव्यत्वेन । कस्मात् । तृणकाष्ठपत्राकारादिभेदभिन्नस्याग्नेरिव स्वरूपं तदेव । पज्जाया जीवाणं ते च नरनारकादयो जीवानां विभावव्यञ्जनपर्याया भण्यन्ते । कैः कृत्वा । उदयादिहिं णामकम्मस्स उदयादिभिर्नामकर्मणो निर्दोषपरमात्मशब्दवाच्यान्निर्णामनिर्गोत्रादिलक्षणाच्छुद्धात्मद्रव्याद- न्यादृशैर्नामकर्मजनितैर्बन्धोदयोदीरणादिभिरिति । यत एव ते कर्मोदयजनितास्ततो ज्ञायते
anvayārthaḥ — [नरनारकतिर्यक्सुराः] manuṣhya, nārak, tiryañch ane dev — e, [नामकर्मणः उदयादिभिः] nāmakarmanā udayādikane līdhe [जीवानां पर्यायाः] jīvonā paryāy chhe — [संस्थानादिभिः] ke jeo sansthānādi vaḍe [अन्यथा जाताः] anya anya prakāranā hoy chhe.
ṭīkāḥ — nārak, tiryañch, manuṣhya ane dev — e jīvonā paryāy chhe. teo nām- karmarūp pudgalanā vipākane kāraṇe anek dravyanā sanyogātmak chhe, tethī jem +tuṣhānal, aṅgār vagere agninā paryāyo bhūkārūp, gāṅgaḍārūp ityādi sansthāno (ākāro) vaḍe anya anya prakāranā hoy chhe, tem jīvanā te nārakādiparyāyo sansthānādi vaḍe anya anya prakāranā ja hoy chhe. 153.
+tuṣhānal = photarānno agni. [tuṣhānal bhūkānā ākāre hoy chhe ane aṅgāro gāṅgaḍānā ākāre
hoy chhe.]