परिच्छेत्ता हि यत्परिच्छेद्यमर्थं परिणमति तन्न तस्य सकलकर्मकक्षक्षयप्रवृत्तस्वाभाविक- परिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य; यतः प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभार- संभावनाकरणमानसः सुदुःसहं कर्मभारमेवोपभुंजानः स जिनेन्द्रैरुद्गीतः ।।४२।। बौद्धमतनिराकरणमुख्यत्वेन गाथात्रयं, तदनन्तरमिन्द्रियज्ञानेन सर्वज्ञो न भवत्यतीन्द्रियज्ञानेन भवतीति नैयायिकमतानुसारिशिष्यसंबोधनार्थं च गाथाद्वयमिति समुदायेन पञ्चमस्थले गाथापञ्चकं गतम् ।। अथ रागद्वेषमोहाः बन्धकारणं, न च ज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा --यस्येष्टानिष्टविकल्परूपेण कर्मबन्धकारणभूतेन ज्ञेयविषये परिणमनमस्ति तस्य क्षायिकज्ञानं नास्तीत्यावेदयति ---परिणमदि णेयमट्ठं णादा जदि नीलमिदं पीतमिदमित्यादिविकल्परूपेण यदि ज्ञेयार्थं परिणमति ज्ञातात्मा णेव खाइगं तस्स णाणं ति तस्यात्मनः क्षायिकज्ञानं नैवास्ति । अथवा ज्ञानमेव नास्ति । कस्मान्नास्ति । तं जिणिंदा खवयंतं कम्ममेवुत्ता तं पुरुषं कर्मतापन्नं जिनेन्द्राः कर्तारः उक्तवंतः ।
अब, ऐसी श्रद्धा व्यक्त करते हैं कि ज्ञेय पदार्थरूप परिणमन जिसका लक्षण है ऐसी (ज्ञेयार्थपरिणमनस्वरूप) क्रिया ज्ञानमेंसे उत्पन्न नहीं होती : —
अन्वयार्थ : — [ज्ञाता ] ज्ञाता [यदि ] यदि [ज्ञेयं अर्थं ] ज्ञेय पदार्थरूप [परिणमति ] परिणमित होता हो तो [तस्य ] उसके [क्षायिकं ज्ञानं ] क्षायिक ज्ञान [न एव इति ] होता ही नहीं । [जिनेन्द्रा:] जिनेन्द्रदेवोंने [तं ] उसे [कर्म एव ] कर्मको ही [क्षपयन्तं ] अनुभव करनेवाला [उक्तवन्तः ] कहा है ।।४२।।
टीका : – यदि ज्ञाता ज्ञेय पदार्थरूप परिणमित होता हो , तो उसे सकल कर्मवनके क्षयसे प्रवर्तमान स्वाभाविक जानपनेका कारण (क्षायिक ज्ञान) नहीं है; अथवा उसे ज्ञान ही नहीं है; क्योंकि प्रत्येक पदार्थरूपसे परिणतिके द्वारा मृगतृष्णामें जलसमूहकी कल्पना करनेकी भावनावाला वह (आत्मा) अत्यन्त दुःसह कर्मभारको ही भोगता है ऐसा जिनेन्द्रोंने कहा है ।
जो ज्ञेय अर्थे परिणमे ज्ञाता, न क्षायिक ज्ञान छे; ते कर्मने ज अनुभवे छे एम जिनदेवो कहे .४२.