आत्मानमेव केवलं प्रति नियतं किल प्रत्यक्षम् । इदं तु व्यतिरिक्तास्तित्वयोगितया परद्रव्यतामुपगतैरात्मनः स्वभावतां मनागप्यसंस्पृशद्भिरिन्द्रियैरुपलभ्योपजन्यमानं न नामात्मनः प्रत्यक्षं भवितुमर्हति ।।५७।। अथेन्द्रियज्ञानं प्रत्यक्षं न भवतीति व्यवस्थापयति — परदव्वं ते अक्खा तानि प्रसिद्धान्यक्षाणीन्द्रियाणि पर- द्रव्यं भवन्ति । कस्य । आत्मनः । णेव सहावो त्ति अप्पणो भणिदा योऽसौ विशुद्धज्ञानदर्शनस्वभाव आत्मनः संबन्धी तत्स्वभावानि निश्चयेन न भणितानीन्द्रियाणि । कस्मात् । भिन्नास्तित्वनिष्पन्नत्वात् । उवलद्धं तेहि उपलब्धं ज्ञातं यत्पञ्चेन्द्रियविषयभूतं वस्तु तैरिन्द्रियैः कधं पच्चक्खं अप्पणो होदि तद्वस्तु कथं प्रत्यक्षं भवत्यात्मनो, न कथमपीति । तथैव च नानामनोरथव्याप्तिविषये प्रतिपाद्यप्रतिपादकादिविकल्प- जालरूपं यन्मनस्तदपीन्द्रियज्ञानवन्निश्चयेन परोक्षं भवतीति ज्ञात्वा किं कर्तव्यम् । सकलैकाखण्डप्रत्यक्ष-
अन्वयार्थ : — [तानि अक्षाणि ] वे इन्द्रियाँ [परद्रव्यं ] पर द्रव्य हैं [आत्मनः स्वभावः इति ] उन्हें आत्मस्वभावरूप [न एव भणितानि ] नहीं कहा है; [तैः ] उनके द्वारा [उपलब्धं ] ज्ञात [आत्मनः ] आत्माको [प्रत्यक्षं ] प्रत्यक्ष [कथं भवति ] कैसे हो सकता है ?।।५७।।
टीका : — जो केवल आत्माके प्रति ही नियत हो वह (ज्ञान) वास्तवमें प्रत्यक्ष है । यह (इन्द्रियज्ञान) तो, जो भिन्न अस्तित्ववाली होनेसे परद्रव्यत्वको प्राप्त हुई है, और आत्मस्वभावत्वको किंचित्मात्र स्पर्श नहीं करतीं (आत्मस्वभावरूप किंचित्मात्र भी नहीं हैं ) ऐसी इन्द्रियोंके द्वारा उपलब्धि करके (-ऐसी इन्द्रियोंके निमित्तसे पदार्थोंको जानकर) उत्पन्न होता है, इसलिये वह (इन्द्रियज्ञान) आत्माके लिये प्रत्यक्ष नहीं हो सकता ।
तेनाथी जे उपलब्ध ते प्रत्यक्ष कई रीत जीवने ?. ५७.