सपरत्वात् बाधासहितत्वात् विच्छिन्नत्वात् बन्धकारणत्वात् विषमत्वाच्च पुण्य- जन्यमपीन्द्रियसुखं दुःखमेव स्यात् । सपरं हि सत् परप्रत्ययत्वात् पराधीनतया, बाधासहितं प्रेरिताः जलौकसः कीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्चामरणं दुःखिता भवन्ति, तथा निजशुद्धात्म- संवित्तिपराङ्मुखा जीवा अपि मृगतृष्णाभ्योऽम्भांसीव विषयानभिलषन्तस्तथैवानुभवन्तश्चामरणं दुःखिता भवन्ति । तत एतदायातं तृष्णातङ्कोत्पादकत्वेन पुण्यानि वस्तुतो दुःखकारणानि इति ।।७५।। अथ पुनरपि पुण्योत्पन्नस्येन्द्रियसुखस्य बहुधा दुःखत्वं प्रकाशयति — सपरं सह परद्रव्यापेक्षया वर्तते सपरं भवतीन्द्रियसुखं, पारमार्थिकसुखं तु परद्रव्यनिरपेक्षत्वादात्माधीनं भवति । बाधासहिदं तीव्रक्षुधा- तृष्णाद्यनेकबाधासहितत्वाद्बाधासहितमिन्द्रियसुखं, निजात्मसुखं तु पूर्वोक्तसमस्तबाधारहितत्वाद- व्याबाधम् । विच्छिण्णं प्रतिपक्षभूतासातोदयेन सहितत्वाद्विच्छिन्नं सान्तरितं भवतीन्द्रियसुखं, अतीन्द्रियसुखं तु प्रतिपक्षभूतासातोदयाभावान्निरन्तरम् । बंधकारणं दृष्टश्रुतानुभूतभोगाकाङ्क्षा-
अन्वयार्थ : — [यत् ] जो [इन्द्रियैः लब्धं ] इन्द्रियोंसे प्राप्त होता है [तत् सौख्यं ] वह सुख [सपरं ] परसम्बन्धयुक्त, [बाधासहितं ] बाधासहित [विच्छिन्नं ] विच्छिन्न [बंधकारणं ] बंधका कारण [विषमं ] और विषम है; [तथा ] इसप्रकार [दुःखम् एव ] वह दुःख ही है ।।७६।।
टीका : — परसम्बन्धयुक्त होनेसे, बाधा सहित होनेसे, विच्छन्न होनेसे, बन्धका कारण होनेसे, और विषम होनेसे, इन्द्रियसुख — पुण्यजन्य होने पर भी — दुःख ही है ।
जे इन्द्रियोथी लब्ध ते सुख ए रीते दुःख ज खरे. ७६.