उभयोरपि निश्चयेनाविशेषात् । अर्हतोऽपि पाककाष्ठागतकार्तस्वरस्येव परिस्पष्टमात्मरूपं,
ततस्तत्परिच्छेदे सर्वात्मपरिच्छेदः । तत्रान्वयो द्रव्यं, अन्वयविशेषणं गुणः, अन्वयव्यतिरेकाः
पर्यायाः । तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यति ।
अथ शुद्धोपयोगाभावे यादृशं जिनसिद्धस्वरूपं न लभते तमेव कथयति —
तवसंजमप्पसिद्धो सुद्धो सग्गापवग्गमग्गकरो ।
अमरासुरिंदमहिदो देवो सो लोयसिहरत्थो ।।✽५।।
तवसंजमप्पसिद्धो समस्तरागादिपरभावेच्छात्यागेन स्वस्वरूपे प्रतपनं विजयनं तपः, बहिरङ्गेन्द्रिय
प्राणसंयमबलेन स्वशुद्धात्मनि संयमनात्समरसीभावेन परिणमनं संयमः, ताभ्यां प्रसिद्धो जात
उत्पन्नस्तपःसंयमप्रसिद्धः, सुद्धो क्षुधाद्यष्टादशदोषरहितः, सग्गापवग्गमग्गकरो स्वर्गः प्रसिद्धः केवल-
ज्ञानाद्यनन्तचतुष्टयलक्षणोऽपवर्गो मोक्षस्तयोर्मार्गं करोत्युपदिशति स्वर्गापवर्गमार्गकरः, अमरासुरिंदमहिदो
तत्पदाभिलाषिभिरमरासुरेन्द्रैर्महितः पूजितोऽमरासुरेन्द्रमहितः, देवो सो स एवंगुणविशिष्टोऽर्हन् देवो
भवति । लोयसिहरत्थो स एव भगवान् लोकाग्रशिखरस्थः सन् सिद्धो भवतीति जिनसिद्धस्वरूपं
ज्ञातव्यम् ।।✽५।। अथ तमित्थंभूतं निर्दोषिपरमात्मानं ये श्रद्दधति मन्यन्ते तेऽक्षयसुखं लभन्त इति
प्रज्ञापयति —
तं देवदेवदेवं जदिवरवसहं गुरुं तिलोयस्स ।
पणमंति जे मणुस्सा ते सोक्खं अक्खयं जंति ।।✽६।।
तं देवदेवदेवं देवदेवाः सौधर्मेन्द्रप्रभृतयस्तेषां देव आराध्यो देवदेवदेवस्तं देवदेवदेवं, जदिवरवसहं
जितेन्द्रियत्वेन निजशुद्धात्मनि यत्नपरास्ते यतयस्तेषां वरा गणधरदेवादयस्तेभ्योऽपि वृषभः प्रधानो
यतिवरवृषभस्तं यतिवरवृषभं, गुरुं तिलोयस्स अनन्तज्ञानादिगुरुगुणैस्त्रैलोक्यस्यापि गुरुस्तं त्रिलोकगुरुं,
पणमंति जे मणुस्सा तमित्थंभूतं भगवन्तं ये मनुष्यादयो द्रव्यभावनमस्काराभ्यां प्रणमन्त्याराधयन्ति ते
सोक्खं अक्खयं जंति ते तदाराधनाफलेन परंपरयाऽक्षयानन्तसौख्यं यान्ति लभन्त इति सूत्रार्थः ।।✽६।।
अथ ‘चत्ता पावारंभं’ इत्यादिसूत्रेण यदुक्तं शुद्धोपयोगाभावे मोहादिविनाशो न भवति, मोहादि-
वह वास्तवमें आत्माको जानता है, क्योंकि दोनोंमें निश्चयसे अन्तर नहीं है; और अरहन्तका
स्वरूप, अन्तिम तावको प्राप्त सोनेके स्वरूपकी भाँति, परिस्पष्ट (-सर्वप्रकारसे स्पष्ट) है,
इसलिये उसका ज्ञान होनेपर सर्व आत्माका ज्ञान होता है । वहाँ अन्वय वह द्रव्य है, अन्वयका
विशेषण वह गुण है और अन्वयके व्यतिरेक(-भेद) वे पर्यायें हैं । सर्वतः विशुद्ध भगवान
अरहंतमें (-अरहंतके स्वरूपका ख्याल करने पर) जीव तीनों प्रकारयुक्त समयको
(-द्रव्यगुणपर्यायमय निज आत्माको) अपने मनसे जान लेता है — समझ लेता है । यथा ‘यह
१३६प्रवचनसार[ भगवानश्रीकुंदकुंद-