(मंदाक्रान्ता छंद)
इत्युच्छेदात्परपरिणतेः कर्तृकर्मादिभेद-
भ्रान्तिध्वंसादपि च सुचिराल्लब्धशुद्धात्मतत्त्वः ।
संचिन्मात्रे महसि विशदे मूर्च्छितश्चेतनोऽयं
स्थास्यत्युद्यत्सहजमहिमा सर्वदा मुक्त एव ।।८।।
(अनुष्टुप छंद)
द्रव्यसामान्यविज्ञाननिम्नं कृत्वेति मानसम् ।
तद्विशेषपरिज्ञानप्राग्भारः क्रियतेऽधुना ।।९।।
इति प्रवचनसारवृत्तौ तत्त्वदीपिकायां श्रीमदमृतचंद्रसूरिविरचितायां ज्ञेयतत्त्वप्रज्ञापने
द्रव्यसामान्यप्रज्ञापनं समाप्तम् ।।
व्याख्यानेन तृतीया चेति । ‘दव्वं जीवमजीवं’ इत्यादिगाथात्रयेण प्रथमस्थलम् । तदनन्तरं ज्ञानादि-
विशेषगुणानां स्वरूपकथनेन ‘लिंगेहिं जेहिं’ इत्यादिगाथाद्वयेन द्वितीयस्थलम् । अथानन्तरं स्वकीय-
स्वकीयविशेषगुणोपलक्षितद्रव्याणां निर्णयार्थं ‘वण्णरस’ इत्यादिगाथात्रयेण तृतीयस्थलम् । अथ
पञ्चास्तिकायकथनमुख्यत्वेन ‘जीवा पोग्गलकाया’ इत्यादिगाथाद्वयेन चतुर्थस्थलम् । अतः परं द्रव्याणां
लोकाकाशमाधार इति कथनेन प्रथमा, यदेवाकाशद्रव्यस्य प्रदेशलक्षणं तदेव शेषाणामिति कथनरूपेण
द्वितीया चेति ‘लोगालोगेसु’ इत्यादिसूत्रद्वयेन पञ्चमस्थलम् । तदनन्तरं कालद्रव्यस्याप्रदेशत्वस्थापनरूपेण
प्रथमा, समयरूपः पर्यायकालः कालाणुरूपो द्रव्यकाल इति कथनरूपेण द्वितीया चेति ‘समओ दु
अप्पदेसो’ इत्यादिगाथाद्वयेन षष्ठस्थलम् । अथ प्रदेशलक्षणकथनेन प्रथमा, तिर्यक्प्रचयोर्ध्वप्रचयस्वरूप-
कहानजैनशास्त्रमाला ]
ज्ञेयतत्त्व -प्रज्ञापन
२५१
अर्थ : — इसप्रकार परपरिणतिके उच्छेदसे (अर्थात् परद्रव्यरूप परिणमनके नाशसे)
तथा कर्ता, कर्म इत्यादि भेदोंकी भ्रांतिके भी नाशसे अन्तमें जिसने शुद्ध आत्मतत्त्वको उपलब्ध
किया है — ऐसा यह आत्मा, चैतन्यमात्ररूप विशद (निर्मल) तेजमें लीन होता हुआ, अपनी
सहज (स्वाभाविक) महिमाके प्रकाशमानरूपसे सर्वदा मुक्त ही रहेगा ।
[अब, श्लोक द्वारा नवीन विषयको — द्रव्यविशेषके वर्णनको — सूचित किया जाता
है : — ]
अर्थ : — इसप्रकार द्रव्यसामान्यके ज्ञानसे मनको गंभीर करके, अब द्रव्यविशेषके
१परिज्ञानका प्रारंभ किया जाता है ।
इसप्रकार (श्रीमद्भगवत्कुन्दकुन्दाचार्यदेवप्रणीत) श्री प्रवचनसार शास्त्रकी श्रीमद्
अमृतचंद्राचार्यदेव विरचित तत्त्वदीपिका नामकी टीकामें ज्ञेयतत्त्व – प्रज्ञापनमें द्रव्यसामान्यप्रज्ञापन
समाप्त हुआ ।
१. परिज्ञान = विस्तारपूर्वक ज्ञान ।