अस्ति हि द्रव्यस्य लोकालोकत्वेन विशेषविशिष्टत्वं स्वलक्षणसद्भावात् । स्वलक्षणं हि लोकस्य षड्द्रव्यसमवायात्मकत्वं, अलोकस्य पुनः केवलाकाशात्मकत्वम् । तत्र सर्वद्रव्य- व्यापिनि परममहत्याकाशे यत्र यावति जीवपुद्गलौ गतिस्थितिधर्माणौ गतिस्थिती आस्कन्दतः तद्गतिस्थितिनिबन्धनभूतौ च धर्माऽधर्मावभिव्याप्यावस्थितौ, सर्वद्रव्यवर्तनानिमित्तभूतश्च कालो नित्यदुर्ललितस्तत्तावदाकाशं शेषाण्यशेषाणि द्रव्याणि चेत्यमीषां समवाय आत्मत्वेन स्वलक्षणं भवतीत्यर्थः ।।१२७।। अथ लोकालोकरूपेण पदार्थस्य द्वैविध्यमाख्याति — पोग्गलजीवणिबद्धो अणु- स्कन्धभेदभिन्नाः पुद्गलास्तावत्तथैवामूर्तत्वातीन्द्रियज्ञानमयत्वनिर्विकारपरमानन्दैकसुखमयत्वादिलक्षणा जीवाश्चेत्थंभूतजीवपुद्गलैर्निबद्धः संबद्धो भृतः पुद्गलजीवनिबद्धः । धम्माधम्मत्थिकायकालड्ढो धर्मा- धर्मास्तिकायौ च कालश्च धर्माधर्मास्तिकायकालास्तैराढयो भृतो धर्माधर्मास्तिकायकालाढयः । जो यः एतेषां पञ्चानामित्थंभूतसमुदायो राशिः समूहः । वट्टदि वर्तते । कस्मिन् । आगासे अनन्ता- नन्ताकाशद्रव्यस्य मध्यवर्तिनि लोकाकाशे । सो लोगो स पूर्वोक्तपञ्चानां समुदायस्तदाधारभूतं लोकाकाशं चेति षड्द्रव्यसमूहो लोको भवति । क्व । सव्वकाले दु सर्वकाले तु । तद्बहिर्भूतमनन्तानन्ताकाशमलोक इत्यभिप्रायः ।।१२८।। अथ द्रव्याणां सक्रियनिःक्रियत्वेन भेदं दर्शयतीत्येका पातनिका, द्वितीया तु जीवपुद्गलयोरर्थव्यञ्जनपर्यायौ द्वौ शेषद्रव्याणां तु
अन्वयार्थ : — [आकाशे ] आकाशमें [यः ] जो भाग [पुद्गलजीवनिबद्धः ] जीव और पुद्गलसे संयुक्त [धर्माधर्मास्तिकायकालाढयः वर्तते ] तथा धर्मास्तिकाय अधर्मास्तिकाय और कालसे समृद्ध है, [सः ] वह [सर्वकाले तु ] सर्वकालमें [लोकः ] लोक है । (शेष केवल आकाश वह अलोक है ।)
टीका : — वास्तवमें द्रव्य लोकत्व और अलोकत्वके भेदसे विशेषवान है, क्योंकि अपने -अपने लक्षणोंका सद्भाव है । लोकका स्वलक्षण षड्द्रव्यसमवायात्मकपना (-छह द्रव्योंका समुदायस्वरूपपना) है और अलोकका केवल आकाशात्मकपना (-मात्र आकाशस्वरूपपना) है । वहाँ, सर्व द्रव्योंमें व्याप्त होने वाले परम महान आकाशमें, जहाँ जितनेमें गतिस्थिति धर्मवाले जीव तथा पुद्गल गति -स्थितिको प्राप्त होते हैं, (जहाँ जितनेमें) उन्हें, गति -स्थितिमें निमित्तभूत धर्म तथा अधर्म व्याप्त होकर रहते हैं और (जहाँ जितनेमें) सर्व द्रव्योंको वर्तनामें निमित्तभूत काल सदा वर्तता है, वह उतना आकाश तथा शेष समस्त