आकाशस्यावगाहो धर्मद्रव्यस्य गमनहेतुत्वम् ।
धर्मेतरद्रव्यस्य तु गुणः पुनः स्थानकारणता ।।१३३।।
कालस्य वर्तना स्यात् गुण उपयोग इति आत्मनो भणितः ।
ज्ञेयाः संक्षेपाद्गुणा हि मूर्तिप्रहीणानाम् ।।१३४।। युगलम् ।
विशेषगुणो हि युगपत्सर्वद्रव्याणां साधारणावगाहहेतुत्वमाकाशस्य, सकृत्सर्वेषां
गमनपरिणामिनां जीवपुद्गलानां गमनहेतुत्वं धर्मस्य, सकृत्सर्वेषां स्थानपरिणामिनां
जीवपुद्गलानां स्थानहेतुत्वमधर्मस्य, अशेषशेषद्रव्याणां प्रतिपर्यायं समयवृत्तिहेतुत्वं कालस्य,
चैतन्यपरिणामो जीवस्य । एवममूर्तानां विशेषगुणसंक्षेपाधिगमे लिंगम् । तत्रैककालमेव
विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्सदाकाशं निश्चिनोति । गतिपरिणतसमस्तजीवपुद्गलानामेकसमये
साधारणं गमनहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्सद्धर्मद्रव्यं निश्चिनोति । तथैव च स्थिति-
परिणतसमस्तजीवपुद्गलानामेकसमये साधारणं स्थितिहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्सद-
धर्मद्रव्यं निश्चिनोति । सर्वद्रव्याणां युगपत्पर्यायपरिणतिहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्स-
त्कालद्रव्यं निश्चिनोति । सर्वजीवसाधारणं सकलविमलकेवलज्ञानदर्शनद्वयं विशेषगुणत्वादेवान्या-
चेतनपञ्चद्रव्याणामसंभवत्सच्छुद्धबुद्धैकस्वभावं परमात्मद्रव्यं निश्चिनोति । अयमत्रार्थः — यद्यपि पञ्च-
द्रव्याणि जीवस्योपकारं कुर्वन्ति तथापि तानि दुःखकारणान्येवेति ज्ञात्वाक्षयानन्तसुखादिकारणं
२६४प्रवचनसार[ भगवानश्रीकुंदकुंद-
अन्वयार्थ : — [आकाशस्यावगाहः ] आकाशका अवगाह, [धर्मद्रव्यस्य
गमनहेतुत्वं ] धर्मद्रव्यका गमनहेतुत्व [तु पुनः ] और [धर्मेतरद्रव्यस्य गुणः ] अधर्म द्रव्यका
गुण [स्थानकारणता ] स्थानकारणता है । [कालस्य ] कालका गुण [वर्तता स्यात् ]
वर्तना है, [आत्मनः गुणः ] आत्माका गुण [उपयोगः इति भणितः ] उपयोग कहा है ।
[मूर्तिप्रहीणानां गुणाः हि ] इसप्रकार अमूर्त द्रव्योंके गुण [संक्षेपात् ] संक्षेपसे [ज्ञेयाः ] जानना
चाहिये ।।१३३ -१३४।।
टीका : — युगपत् सर्वद्रव्योंके साधारण अवगाहका हेतुपना आकाशका विशेष गुण
है । एक ही साथ सर्व गमनपरिणामी (गतिरूप परिणमित) जीव -पुद्गलोंके गमनका हेतुपना
धर्मका विशेष गुण है । एक ही साथ सर्व स्थानपरिणामी (स्थितिरूप परिणमित) जीव-
पुद्गलोंके स्थिर होनेका हेतुत्व स्थितिका अर्थात् स्थिर होनेका निमित्तपना अधर्मका विशेषगुण
है । (कालके अतिरिक्त) शेष समस्त द्रव्योंकी प्रति -पर्यायमें समयवृत्तिका हेतुपना (समय-
समयकी परिणतिका निमित्तत्व) कालका विशेष गुण है । चैतन्यपरिणाम जीवका विशेष गुण
है । इसप्रकार अमूर्त द्रव्योंके विशेष गुणोंका संक्षिप्त ज्ञान होने पर अमूर्त द्रव्योंको जाननेके लिंग
(चिह्न, लक्षण, साधन) प्राप्त होते हैं; अर्थात् उन -उन विशेष गुणोंके द्वारा उन -उन अमूर्त