यतो मोहादिभिः पौद्गलिककर्मभिर्बद्धत्वाज्जीवः प्राणनिबद्धो भवति, यतश्च प्राणनिबद्धत्वात्पौद्गलिककर्मफलमुपभुंजानः पुनरप्यन्यैः पौद्गलिककर्मभिर्बध्यते, ततः वीर्याद्यनन्तगुणस्वभावात्परमात्मतत्त्वाद्भिन्ना भावयितव्या इति भावः ।।१४७।। अथ प्राणानां यत्पूर्व- सूत्रोदितं पौद्गलिकत्वं तदेव दर्शयति — जीवो पाणणिबद्धो जीवः कर्ता चतुर्भिः प्राणैर्निबद्धः संबद्धो भवति । कथंभूतः सन् । बद्धो शुद्धात्मोपलम्भलक्षणमोक्षाद्विलक्षणैर्बद्धः । कैर्बद्धः । मोहादिएहिं कम्मेहिं मोहनीयादिकर्मभिर्बद्धस्ततो ज्ञायते मोहादिकर्मभिर्बद्धः सन् प्राणनिबद्धो भवति, न च कर्मबन्धरहित इति । तत एव ज्ञायते प्राणाः पुद्गलकर्मोदयजनिता इति । तथाविधः सन् किं करोति । उवभुंजदि कम्मफलं परमसमाधिसमुत्पन्ननित्यानन्दैकलक्षणसुखामृतभोजनमलभमानः सन् कटुकविषसमानमपि कर्मफलमुपभुङ्क्ते । बज्झदि अण्णेहिं कम्मेहिं तत्कर्मफलमुपभुञ्जानः सन्नयं जीवः कर्मरहितात्मनो विसदृशैरन्यकर्मभिर्नवतरकर्मभिर्बध्यते । यतः कारणात्कर्मफलं भुञ्जानो नवतर कर्माणि बध्नाति, होनेपर भी वे द्रव्यप्राण आत्माका स्वरूप किंचित् मात्र नहीं हैं क्योंकि वे पुद्गल द्रव्यसे निर्मित हैं ।।१४७।।
अन्वयार्थ : — [मोहादिकैः कर्मभिः ] मोहादिक कर्मोंसे [बद्धः ] बँधा हुआ होनेसे [जीवः ] जीव [प्राणनिबद्धः ] प्राणोंसे संयुक्त होता हुआ [कर्मफलं उपभुंजानः ] कर्मफलको भोगता हुआ [अन्यैः कर्मभिः ] अन्य कर्मोंसे [बध्यते ] बँधता है ।।१४८।।
टीका : — (१) मोहादिक पौद्गलिक कर्मोंसे बँधा हुआ होनेसे जीव प्राणोंसे संयुक्त होता है और (२) प्राणोंसे संयुक्त होनेके कारण पौद्गलिक कर्मफलको (मोही – रागी – द्वेषी जीव मोह – राग – द्वेषपूर्वक) भोगता हुआ पुनः भी अन्य पौद्गलिक कर्मोंसे बंधता है, इसलिये
जीव कर्मफ ळ - उपभोग करतां, बंध पामे कर्मनो. १४८.