नारकस्तिर्यङ्मनुष्यो देव इति किल पर्याया जीवानाम् । ते खलु नामकर्मपुद्गल- विपाककारणत्वेनानेकद्रव्यसंयोगात्मकत्वात् कुकूलांगारादिपर्याया जातवेदसः क्षोदखिल्व- संस्थानादिभिरिव संस्थानादिभिरन्यथैव भूता भवन्ति ।।१५३।। नरनारकतिर्यग्देवरूपा अवस्थाविशेषाः । संठाणादीहिं अण्णहा जादा संस्थानादिभिरन्यथा जाताः, मनुष्यभवे यत्समचतुरस्रादिसंस्थानमौदारिकशरीरादिकं च तदपेक्षया भवान्तरेऽन्यद्विसद्रशं संस्थानादिकं भवति । तेन कारणेन ते नरनारकादिपर्याया अन्यथा जाता भिन्ना भण्यन्ते; न च शुद्धबुद्धैकस्वभावपरमात्मद्रव्यत्वेन । कस्मात् । तृणकाष्ठपत्राकारादिभेदभिन्नस्याग्नेरिव स्वरूपं तदेव । पज्जाया जीवाणं ते च नरनारकादयो जीवानां विभावव्यञ्जनपर्याया भण्यन्ते । कैः कृत्वा । उदयादिहिं णामकम्मस्स उदयादिभिर्नामकर्मणो निर्दोषपरमात्मशब्दवाच्यान्निर्णामनिर्गोत्रादिलक्षणाच्छुद्धात्मद्रव्याद- न्यादृशैर्नामकर्मजनितैर्बन्धोदयोदीरणादिभिरिति । यत एव ते कर्मोदयजनितास्ततो ज्ञायते
अन्वयार्थ : — [नरनारकतिर्यक्सुराः ] मनुष्य, नारक, तिर्यंच और देव — ये [नामकर्मणः उदयादिभिः ] नामकर्मके उदयादिक के कारण [जीवानां पर्यायाः ] जीवोंकी पर्यायें हैं — [संस्थानादिभिः ] जो कि संस्थानादिके द्वारा [अन्यथा जाताः ] अन्य – अन्य प्रकारकी होती हैं ।।१५३।।
टीका : — नारक, तिर्यंच, मनुष्य और देव — ये जीवोंकी पर्यायें हैं । वे नामकर्मरूप पुद्गलके विपाकके कारण अनेक द्रव्योंकी संयोगात्मक हैं; इसलिये जैसे तृषकी अग्नि और अंगार इत्यादि अग्निकी पर्यायें चूरा और डली इत्यादि आकारोंसे अन्य- अन्य प्रकारकी होती हैं, उसीप्रकार जीवकी वे नारकादि पर्यायें संस्थानादिके द्वारा अन्य- अन्य प्रकारकी ही होती हैं ।।१५३।।