परमाणुर्हि द्वयादिप्रदेशानामभावादप्रदेशः, एकप्रदेशसद्भावात् प्रदेशमात्रः, स्वयमनेक-
परमाणुद्रव्यात्मकशब्दपर्यायव्यक्त्यसंभवादशब्दश्च । यतश्चतुःस्पर्शपंचरसद्विगन्धपंचवर्णानाम-
विरोधेन सद्भावात् स्निग्धो वा रूक्षो वा स्यात्, तत एव तस्य पिण्डपर्यायपरिणतिरूपा
द्विप्रदेशादित्वानुभूतिः । अथैवं स्निग्धरूक्षत्वं पिण्डत्वसाधनम् ।।१६३।।
अथ कीद्रशं तत्स्निग्धरूक्षत्वं परमाणोरित्यावेदयति —
विशेषान्तराधिकारः समाप्तः । अथ केवलपुद्गलबन्धमुख्यत्वेन नवगाथापर्यन्तं व्याख्यानं करोति । तत्र
स्थलद्वयं भवति । परमाणूनां परस्परबन्धकथनार्थं ‘अपदेसो परमाणू’ इत्यादिप्रथमस्थले गाथाचतुष्टयम् ।
तदनन्तरं स्कन्धानां बन्धमुख्यत्वेन ‘दुपदेसादी खंधा’ इत्यादिद्वितीयस्थले गाथापञ्चकम् । एवं
द्वितीयविशेषान्तराधिकारे समुदायपातनिका । अथ यद्यात्मा पुद्गलानां पिण्डं न करोति तर्हि कथं
पिण्डपर्यायपरिणतिरिति प्रश्ने प्रत्युत्तरं ददाति — अपदेसो अप्रदेशः । स कः । परमाणू पुद्गलपरमाणुः ।
पुनरपि कथंभूतः । पदेसमेत्तो य द्वितीयादिप्रदेशाभावात् प्रदेशमात्रश्च । पुनश्च किंरूपः । सयमसद्दो य स्वयं
व्यक्तिरूपेणाशब्दः । एवं विशेषणत्रयविशिष्टः सन् णिद्धो वा लुक्खो वा स्निग्धो वा रूक्षो वा यतः
कारणात्संभवति ततः कारणात् दुपदेसादित्तमणुहवदि द्विप्रदेशादिरूपं बन्धमनुभवतीति । तथाहि —
यथायमात्मा शुद्धबुद्धैकस्वभावेन बन्धरहितोऽपि पश्चादशुद्धनयेन स्निग्धस्थानीयरागभावेन
रूक्षस्थानीयद्वेषभावेन यदा परिणमति तदा परमागमकथितप्रकारेण बन्धमनुभवति, तथा परमाणुरपि
स्वभावेन बन्धरहितोऽपि यदा बन्धकारणभूतस्निग्धरूक्षगुणेन परिणतो भवति तदा पुद्गलान्तरेण सह
विभावपर्यायरूपं बन्धमनुभवतीत्यर्थः ।।१६३।। अथ कीद्रशं तत्स्निग्धरूक्षत्वमिति पृष्टे प्रत्युत्तरं ददाति —
कहानजैनशास्त्रमाला ]
ज्ञेयतत्त्व -प्रज्ञापन
३१३
प्र. ३९
टीका : — वास्तवमें परमाणु द्वि – आदि (दो, तीन आदि) प्रदेशोंके अभावके
कारण अप्रदेश है, एक प्रदेशके सद्भावके कारण प्रदेशमात्र है और स्वयं अनेक
परमाणुद्रव्यात्मक शब्द पर्यायकी व्यक्तिका (प्रगटताका) असंभव होनेसे अशब्द है । (वह
परमाणु) अविरोधपूर्वक चार स्पर्श, पाँच रस, दो गंध और पाँच वर्णोंके सद्भावके कारण
स्निग्ध अथवा रूक्ष होता है, इसीलिये उसे १पिण्डपर्यायपरिणतिरूप द्विप्रदेशादिपनेकी
अनुभूति होती है । इसप्रकार स्निग्धरूक्षत्व पिण्डपनेका कारण है ।।१६३।।
अब यह बतलाते हैं कि परमाणुके वह स्निग्ध – रूक्षत्व किसप्रकारका
होता है : —
१. एक परमाणुकी दूसरे परमाणुके साथ पिण्डरूप परिणति द्विप्रदेशीपनेकी अनुभूति है; एक परमाणुकी अन्य
दो परमाणुओंके साथ पिण्डरूप परिणति त्रिप्रदेशीपनेका अनुभव है । इसप्रकार परमाणु अन्य परमाणुओंके
साथ पिण्डरूप परिणमित होनेपर अनेकप्रदेशीपनेका अनुभव करता है ।