द्रव्यबन्धोऽस्ति तावद्विशिष्टपरिणामात् । विशिष्टत्वं तु परिणामस्य रागद्वेषमोहमय- त्वेन । तच्च शुभाशुभत्वेन द्वैतानुवर्ति । तत्र मोहद्वेषमयत्वेनाशुभत्वं, रागमयत्वेन तु शुभत्वं चाशुभत्वं च । विशुद्धिसंक्लेशांगत्वेन रागस्य द्वैविध्यात् भवति ।।१८०।।
अथ विशिष्टपरिणामविशेषमविशिष्टपरिणामं च कारणे कार्यमुपचर्य कार्यत्वेन निर्दिशति —
द्रव्यबन्धसाधकं रागाद्युपाधिजनितभेदं दर्शयति — परिणामादो बंधो परिणामात्सकाशाद्बन्धो भवति । स च परिणामः किंविशिष्टः । परिणामो रागदोसमोहजुदो वीतरागपरमात्मनो विलक्षणत्वेन परिणामो रागद्वेष- मोहोपाधित्रयेण संयुक्तः । असुहो मोहपदोसो अशुभौ मोहप्रद्वेषौ । परोपाधिजनितपरिणामत्रयमध्ये मोह- प्रद्वेषद्वयमशुभम् । सुहो व असुहो हवदि रागो शुभोऽशुभो वा भवति रागः । पञ्चपरमेष्ठयादिभक्तिरूपः शुभराग उच्यते, विषयकषायरूपश्चाशुभ इति । अयं परिणामः सर्वोऽपि सोपाधित्वात् बन्धहेतुरिति ज्ञात्व बन्धे शुभाशुभसमस्तरागद्वेषविनाशार्थं समस्तरागाद्युपाधिरहिते सहजानन्दैकलक्षणसुखामृतस्वभावे निजात्मद्रव्ये भावना कर्तव्येति तात्पर्यम् ।।१८०।। अथ द्रव्यरूपपुण्यपापबन्धकारणत्वाच्छुभाशुभपरिणामयोः पुण्यपापसंज्ञां शुभाशुभरहितशुद्धोपयोगपरिणामस्य मोक्षकारणत्वं च कथयति — सुहपरिणामो पुण्णं है, [रागः ] राग [शुभः वा अशुभः ] शुभ अथवा अशुभ [भवति ] होता है ।।१८०।।
टीका : — प्रथम तो द्रव्यबन्ध विशिष्ट परिणामसे होता है । परिणामकी विशिष्टता राग – द्वेष – मोहमयपनेके कारण है । वह शुभ और अशुभपनेके कारण द्वैतका अनुसरण करता है । (अर्थात् दो प्रकारका है ); उसमेंसे १मोह – द्वेषमयपनेसे अशुभपना होता है, और रागमयपनेसे शुभपना तथा अशुभपना होता है क्योंकि २राग – विशुद्धि तथा संक्लेशयुक्त होनेसे दो प्रकारका होता है ।।१८०।।
अब विशिष्ट परिणामके भेदको तथा अविशिष्ट परिणामको, कारणमें कार्यका उपचार करके कार्यरूपसे बतलाते हैं : — १. मोहमय परिणाम और द्वेषमय परिणाम अशुभ हैं । २. धर्मानुराग विशुद्धिवाला होनेसे धर्मानुरागमय परिणाम शुभ है; विषयानुराग संक्लेशमय होनेसे विषयानुरागमय
निजद्रव्यगत परिणाम समये दुःखक्षयनो हेतु छे. १८१.