शुभपरिणामः पुण्यमशुभः पापमिति भणितमन्येषु ।
परिणामोऽनन्यगतो दुःखक्षयकारणं समये ।।१८१।।
द्विविधस्तावत्परिणामः, परद्रव्यप्रवृत्तः स्वद्रव्यप्रवृत्तश्च । तत्र परद्रव्यप्रवृत्तः परोप-
रक्तत्वाद्विशिष्टपरिणामः, स्वद्रव्यप्रवृत्तस्तु परानुपरक्तत्वादविशिष्टपरिणामः । तत्रोक्तौ द्वौ
विशिष्टपरिणामस्य विशेषौ, शुभपरिणामोऽशुभपरिणामश्च । तत्र पुण्यपुद्गलबन्धकारणात्वात्
शुभपरिणामः पुण्यं, पापपुद्गलबन्धकारणत्वादशुभपरिणामः पापम् । अविशिष्टपरिणामस्य तु
शुद्धत्वेनैकत्वान्नास्ति विशेषः । स काले संसारदुःखहेतुकर्मपुद्गलक्षयकारणत्वात्संसार-
दुःखहेतुकर्मपुद्गलक्षयात्मको मोक्ष एव ।।१८१।।
द्रव्यपुण्यबन्धकारणत्वाच्छुभपरिणामः पुण्यं भण्यते । असुहो पावं ति भणिदं द्रव्यपापबन्धकारणत्वाद-
शुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणामः । अण्णेसु निजशुद्धात्मनः
सकाशादन्येषु शुभाशुभबहिर्द्रव्येषु । परिणामो णण्णगदो परिणामो नान्यगतोऽनन्यगतः स्वस्वरूपस्थ
इत्यर्थंः । स इत्थंभूतः शुद्धोपयोगलक्षणः परिणामः दुक्खक्खयकारणं दुःखक्षयकारणं दुःखक्षयाभिधान-
मोक्षस्य कारणं भणिदो भणितः । क्व भणितः । समये परमागमे लब्धिकाले वा । किंच,
मिथ्यादृष्टिसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्वं भणितमास्ते, अविरत-
देशविरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामश्च भणितः, अप्रमत्तादिक्षीणकषायान्तगुण-
स्थानेषु तारतम्येन शुद्धोपयोगोऽपि भणितः । नयविवक्षायां मिथ्यादृष्टयादिक्षीणक षायान्तगुणस्थानेषु
३४०प्रवचनसार[ भगवानश्रीकुंदकुंद-
अन्वयार्थ : — [अन्येषु ] परके प्रति [शुभ परिणामः ] शुभ परिणाम [पुण्यम् ] पुण्य
है, और [अशुभः ] अशुभ परिणाम [पापम् ] पाप है, [इति भणितम् ] ऐसा कहा है;
[अनन्यगतः परिणामः ] जो दूसरेके प्रति प्रवर्तमान नहीं है ऐसा परिणाम [समये ] समय पर
[दुःखक्षयकारणम् ] दुःखक्षयका कारण है ।।१८१।।
टीका : — प्रथम तो परिणाम दो प्रकारका है — परद्रव्यप्रवृत्त (परद्रव्यके प्रति
प्रवर्तमान) और स्वद्रव्यप्रवृत्त । इनमेंसे परद्रव्यप्रवृत्तपरिणाम परके द्वारा उपरक्त (-परके
निमित्तसे विकारी) होनेसे विशिष्ट परिणाम है और स्वद्रव्यप्रवृत्त परिणाम परके द्वारा उपरक्त
न होनेसे अविशिष्ट परिणाम है । उसमें विशिष्ट परिणामके पूर्वोक्त दो भेद हैं – शुभपरिणाम
और अशुभ परिणाम । उनमें पुण्यरूप पुद्गलके बंधका कारण होनेसे शुभपरिणाम पुण्य
है और पापरूप पुद्गलके बंधका कारण होनेसे अशुभ परिणाम पाप है । अविशिष्ट परिणाम
तो शुद्ध होनेसे एक है इसलिये उसके भेद नहीं हैं । वह (अविशिष्ट परिणाम) यथाकाल
संसारदुःखके हेतुभूत कर्मपुद्गलके क्षयका कारण होनेसे संसारदुःखका हेतुभूत
कर्मपुद्गलका क्षयस्वरूप मोक्ष ही है ।