Pravachansar (Hindi). Gatha: 194.

< Previous Page   Next Page >


Page 358 of 513
PDF/HTML Page 391 of 546

 

अथैवं शुद्धात्मोपलम्भात्किं स्यादिति निरूपयति
जो एवं जाणित्ता झादि परं अप्पगं विसुद्धप्पा
सागारोऽणागारो खवेदि सो मोहदुग्गंठिं ।।१९४।।
य एवं ज्ञात्वा ध्यायति परमात्मानं विशुद्धात्मा
साकारोऽनाकारः क्षपयति स मोहदुर्ग्रन्थिम् ।।१९४।।

अमुना यथोदितेन विधिना शुद्धात्मानं ध्रुवमधिगच्छतस्तस्मिन्नेव प्रवृत्तेः शुद्धात्मत्वं स्यात्; ततोऽनन्तशक्तिचिन्मात्रस्य परमस्यात्मन एकाग्रसंचेचेतनलक्षणं ध्यानं स्यात्; ततः विलक्षणा औदारिकादिपञ्चदेहास्तथैव च पञ्चेन्द्रियभोगोपभोगसाधकानि परद्रव्याणि च न केवलं देहादयो ध्रुवा न भवन्ति, सुहदुक्खा वा निर्विकारपरमानन्दैकलक्षणस्वात्मोत्थसुखामृतविलक्षणानि सांसारिकसुखदुःखानि वा अध अहो भव्याः सत्तुमित्तजणा शत्रुमित्रादिभावरहितादात्मनो भिन्नाः शत्रु- मित्रादिजनाश्च यद्येतत् सर्वमध्रुवं तर्हि किं ध्रुवमिति चेत् धुवो ध्रुवः शाश्वतः स कः अप्पा निजात्मा किंविशिष्टः उवओगप्पगो त्रैलोक्योदरविवरवर्तित्रिकालविषयसमस्तद्रव्यगुणपर्याययुगपत्- परिच्छित्तिसमर्थकेवलज्ञानदर्शनोपयोगात्मक इति एवमध्रुवत्वं ज्ञात्वा ध्रुवस्वभावे स्वात्मनि भावना कर्तव्येति तात्पर्यम् ।।१९३।। एवमशुद्धनयादशुद्धात्मलाभो भवतीति कथनेन प्रथमगाथा शुद्धनयाच्छुद्धात्मलाभो भवतीति कथनेन द्वितीया ध्रुवत्वादात्मैव भावनीय इति प्रतिपादनेन तृतीया आत्मानोऽन्यदध्रुवं न भावनीयमिति कथनेन चतुर्थी चेति शुद्धात्मव्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतम् अथैवं पूर्वोक्तप्रकारेण शुद्धात्मोपलम्भे सति किं फलं भवतीति प्रश्ने प्रत्युत्तरमाहझादि ध्यायति जो यः कर्ता कम् अप्पगं निजात्मानम् कथंभूतम् परं

इसप्रकार शुद्धात्माकी उपलब्धिसे क्या होता है वह अब निरूपण करते हैं :

अन्वयार्थ :[यः ] जो [एवं ज्ञात्वा ] ऐसा जानकर [विशुद्धात्मा ] विशुद्धात्मा होता हुआ [परमात्मानं ] परम आत्माका [ध्यायति ] ध्यान करता है, [सः ] वह [साकारः अनाकारः ] साकार हो या अनाकार[मोहदुर्ग्रंथिं ] मोहदुर्ग्रंथिका [क्षपयति ] क्षय करता है ।।१९४।।

टीका :इस यथोक्त विधिके द्वारा जो शुद्धात्माको ध्रुव जानता है, उसे उसीमें प्रवृत्तिके द्वारा शुद्धात्मत्व होता है; इसलिये अनन्तशक्तिवाले चिन्मात्र परम आत्माका

आ जाणी, शुद्धात्मा बनी, ध्यावे परम निज आत्मने,
साकार अणआकार हो, ते मोहग्रंथि क्षय करे. १९४.

३५८प्रवचनसार[ भगवानश्रीकुंदकुंद-

१. चिन्मात्र = चैतन्यमात्र [परम आत्मा केवल चैतन्यमात्र है, जो कि अनन्त शक्तिवाला है ]]