यतः सर्व एव सामान्यचरमशरीरास्तीर्थकराः अचरमशरीरा मुमुक्षवश्चामुनैव यथोदि- तेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न पुनरन्यथापि, ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो, न द्वितीय इति । अलं च समयसारबलेनातिक्रामति विनाशयति यदा तस्मिन्नेव क्षणे समस्तबाधारहितः सन्नतीन्द्रियमनन्त- मात्मोत्थसुखं ध्यायत्यनुभवति परिणमति । ततो ज्ञायते केवलिनामन्यच्चिन्तानिरोधलक्षणं ध्यानं नास्ति, किंत्विदमेव परमसुखानुभवनं वा ध्यानकार्यभूतां कर्मनिर्जरां दृष्टवा ध्यानशब्देनोपचर्यते । यत्पुनः सयोगिकेवलिनस्तृतीयशुक्लध्यानमयोगिकेवलिनश्चतुर्थशुक्लध्यानं भवतीत्युक्तं तदुपचारेण ज्ञातव्यमिति सूत्राभिप्रायः ।।१९८।। एवं केवली किं ध्यायतीति प्रश्नमुख्यत्वेन प्रथमगाथा । परमसुखं ध्यायत्यनुभवतीति परिहारमुख्यत्वेन द्वितीया चेति ध्यानविषयपूर्वपक्षपरिहारद्वारेण तृतीयस्थले गाथाद्वयं गतम् । अथायमेव निजशुद्धात्मोपलब्धिलक्षणमोक्षमार्गो, नान्य इति विशेषेण समर्थयति — जादा जाता उत्पन्नाः । कथंभूताः। सिद्धा सिद्धाः सिद्धपरमेष्ठिनो मुक्तात्मान इत्यर्थः । के कर्तारः । जिणा जिनाः अनागारकेवलिनः । जिणिंदा न केवलं जिना जिनेन्द्राश्च तीर्थकरपरमदेवाः । कथंभूताः सन्तः एते सिद्धा
अब, यह निश्चित करते हैं कि – ‘यही (पूर्वोक्त ही) शुद्ध आत्माकी उपलब्धि जिसका लक्षण है, ऐसा मोक्षका मार्ग है’ : —
अन्वयार्थ : — [जिनाः जिनेन्द्राः श्रमणाः ] जिन, जिनेन्द्र और श्रमण (अर्थात् सामान्यकेवली, तीर्थंकर और मुनि) [एवं ] इस (पूर्वोक्त ही) प्रकारसे [मार्ग समुत्थिताः ] मार्गमें आरूढ़ होते हुए [सिद्धाः जाताः ] सिद्ध हुए [नमोऽस्तु ] नमस्कार हो [तेभ्यः ] उन्हें [च ] और [तस्मै निर्वाणमार्गाय ] उस निर्वाणमार्गको ।।१९९।।
टीका : — सभी सामान्य चरमशरीरी, तीर्थंकर और अचरमशरीरी मुमुक्षु इसी यथोक्त शुद्धात्मतत्त्वप्रवृत्तिलक्षण (शुद्धात्मतत्त्वमें प्रवृत्ति जिसका लक्षण है ऐसी) विधिसे प्रवर्तमान मोक्षमार्गको प्राप्त करके सिद्ध हुए; किन्तु ऐसा नहीं है कि किसी दूसरी विधिसे भी सिद्ध हुए
सिद्धि वर्या; नमुं तेमने, निर्वाणना ते मार्गने. १९९.