ततोऽपि श्रमणो भवितुमिच्छन् लिंगद्वैतमादत्ते, गुरुं नमस्यति, व्रतक्रिये शृणोति,
अथोपतिष्ठते; उपस्थितश्च पर्याप्तश्रामण्यसामग्रीकः श्रमणो भवति । तथा हि — तत इदं
यथाजातरूपधरत्वस्य गमकं बहिरंगमन्तरंगमपि लिंगं प्रथममेव गुरुणा परमेणार्हद्भट्टारकेण
तदात्वे च दीक्षाचार्येण तदादानविधानप्रतिपादकत्वेन व्यवहारतो दीयमानत्वाद्दत्तमादानक्रियया
सम्भाव्य तन्मयो भवति । ततो भाव्यभावकभावप्रवृत्तेतरेतरसंवलनप्रत्यस्तमितस्वपरविभागत्वेन
दत्तसर्वस्वमूलोत्तरपरमगुरुनमस्क्रियया सम्भाव्य भावस्तववन्दनामयो भवति । ततः सर्वसावद्य-
योगप्रत्याख्यानलक्षणैकमहाव्रतश्रवणात्मना श्रुतज्ञानेन समये भवन्तमात्मानं जानन् सामायिक-
गुरुणा परमेण दिव्यध्वनिकाले परमागमोपदेशरूपेणार्हद्भट्टारकेण, दीक्षाकाले तु दीक्षागुरुणा ।
लिङ्गग्रहणानन्तरं तं णमंसित्ता तं गुरुं नमस्कृत्य, सोच्चा तदनन्तरं श्रुत्वा । काम् । किरियं क्रियां
बृहत्प्रतिक्रमणाम् । किंविशिष्टम् । सवदं सव्रतां व्रतारोपणसहिताम् । उवट्ठिदो ततश्चोपस्थितः स्वस्थः सन्
होदि सो समणो स पूर्वोक्तस्तपोधन इदानीं श्रमणो भवतीति । इतो विस्तरः — पूर्वोक्त लिङ्गद्वय-
ग्रहणानन्तरं पूर्वसूत्रोक्तपञ्चाचारमाश्रयति, ततश्चानन्तज्ञानादिगुणस्मरणरूपेण भावनमस्कारेण तथैव
तद्गुणप्रतिपादकवचनरूपेण द्रव्यनमस्कारेण च गुरुं नमस्करोति । ततः परं समस्तशुभाशुभपरिणाम-
निवृत्तिरूपं स्वस्वरूपे निश्चलावस्थानं परमसामायिकव्रतमारोहति स्वीकरोति । मनोवचनकायैः
कृतकारितानुमतैश्च जगत्त्रये कालत्रयेऽपि समस्तशुभाशुभकर्मभ्यो भिन्ना निजशुद्धात्मपरिणतिलक्षणा
या तु क्रिया सा निश्चयेन बृहत्प्रतिक्रमणा भण्यते । व्रतारोपणानन्तरं तां च शृणोति । ततो
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
३८५
प्र. ४९
टीका : — तत्पश्चात् श्रमण होनेका इच्छुक दोनों लिंगोंको ग्रहण करता है, गुरुको
नमस्कार करता है, व्रत तथा क्रियाको सुनता है और उपस्थित होता है; उपस्थित होता हुआ
श्रामण्यकी सामग्री पर्याप्त (परिपूर्ण) होनेसे श्रमण होता है । वह इसप्रकार : —
परम गुरु — प्रथम ही अर्हंतभट्टारक और उस समय (दीक्षाकालमें) दीक्षाचार्य — इस
यथाजातरूपधरत्वके सूचक बहिरंग तथा अंतरंग लिंगके ग्रहणकी – विधिके प्रतिपादक होनेसे,
व्यवहारसे उस लिंगके देनेवाले हैं । इसप्रकार उनके द्वारा दिये गये उन लिंगोंको ग्रहण क्रियाके
द्वारा संभावित – सम्मानित करके (श्रामण्यार्थी) तन्मय होता है । और फि र जिन्होंने सर्वस्व दिया
है ऐसे १मूल और उत्तर परमगुरुको, २भाव्यभावकताके कारण प्रवर्तित ✽इतरेतरमलिनके कारण
जिसमेंसे स्व – परका विभाग अस्त हो गया है ऐसी नमस्कार क्रियाके द्वारा संभावित करके –
सम्मानित करके ३भावस्तुति वन्दनामय होता है । पश्चात् सर्व सावद्ययोगके प्रत्याख्यानस्वरूप
१. मूल परमगुरु अर्हन्तदेव तथा उत्तरपरमगुरु दीक्षाचार्यके प्रति अत्यन्त आराध्यभावके कारण आराध्य परमगुरु
और आराधक ऐसे निजका भेद अस्त हो जाता है ।
२. भाव्य और भावकके अर्थके लिये देखो पृष्ठ ८ का पाद टिप्पण ।
✽इसका स्पष्टीकरण प्रथमकी ५ गाथाओंके टीप्पण पत्रमें देखिये ।
३. भावस्तुतिवन्दनामय = भावस्तुतिमय और भाववन्दनामय ।