यथा हि कायव्यापारपूर्वकस्य परप्राणव्यपरोपस्याशुद्धोपयोगसद्भावासद्भावाभ्याम- नैकान्तिकबन्धत्वेन छेदत्वमनैकान्तिकमिष्टं, न खलु तथोपधेः, तस्य सर्वथा तदविनाभावित्व- प्रसिद्धयदैकान्तिकाशुद्धोपयोगसद्भावस्यैकान्तिकबन्धत्वेन छेदत्वमैकान्तिकमेव । अत एव भगवन्तोऽर्हन्तः परमाः श्रमणाः स्वयमेव प्रागेव सर्वमेवोपधिं प्रतिषिद्धवन्तः । अत एव चापरैरप्यन्तरंगच्छेदवत्तदनान्तरीयकत्वात्प्रागेव सर्व एवोपधिः प्रतिषेध्यः ।।२१९।। भवति, न भवति वा, परिग्रहे सति नियमेन भवतीति प्रतिपादयति — हवदि व ण हवदि बंधो भवति वा न भवति बन्धः । कस्मिन्सति । मदम्हि जीवे मृते सत्यन्यजीवे । अध अहो । कस्यां सत्याम् । कायचेट्ठम्हि कायचेष्टायाम् । तर्हि कथं बन्धो भवति । बंधो धुवमुवधीदो बन्धो भवति ध्रुवं निश्चितम् । कस्मात् । उपधेः परिग्रहात्सकाशात् । इदि इति हेतोः समणा छड्डिया सव्वं श्रमणा महाश्रमणाः सर्वज्ञाः पूर्वं दीक्षाकाले शुद्धबुद्धैकस्वभावं निजात्मानमेव परिग्रहं कृत्वा, शेषं समस्तं बाह्याभ्यन्तरपरिग्रहं छर्दितवन्तस्त्यक्तवन्तः । एवं ज्ञात्वा शेषतपोधनैरपि निजपरमात्मपरिग्रहं स्वीकारं कृत्वा, शेषः सर्वोऽपि परिग्रहो मनोवचनकायैः कृतकारितानुमतैश्च त्यजनीय इति । अत्रेदमुक्तं भवति – शुद्धचैतन्यरूपनिश्चय- प्राणे रागादिपरिणामरूपनिश्चयहिंसया पातिते सति नियमेन बन्धो भवति । परजीवघाते पुनर्भवति वा
अन्वयार्थ : — [अथ ] अब (उपधिके संबंधमें ऐसा है कि), [कायचेष्टायाम् ] कायचेष्टापूर्वक [जीवे मृते ] जीवके मरने पर [बन्धः ] बंध [भवति ] होता है [वा ] अथवा [न भवति ] नहीं होता; [उपधेः ] (किन्तु) उपधिसे – परिग्रहसे [ध्रुवम् बंधः ] निश्चय ही बंध होता है; [इति ] इसलिये [श्रमणाः ] श्रमणों (अर्हन्तदेवों) ने [सर्व ] सर्व परिग्रहको [त्यक्तवन्तः ] छोड़ा है ।।२१९।।
टीका : — जैसे कायव्यापारपूर्वक परप्राणव्यपरोपको अशुद्धोपयोगके सद्भाव और असद्भावके द्वारा अनैकांतिक बंधरूप होनेसे उसे (कायव्यापारपूर्वक परप्राणव्यपरोपको) छेदपना नहीं होता, ऐसा जो परिग्रहका सर्वथा अशुद्धोपयोगके साथ अविनाभावित्व है उससे प्रसिद्ध होनेवाले २ऐकान्तिक अशुद्धोपयोगके सद्भावके कारण परिग्रह तो ऐकान्तिक बंधरूप है, इसलिये उसे (-परिग्रहको) छेदपना ऐकान्तिक ही है । इसीलिये भगवन्त अर्हन्तोंने — परम श्रमणोंने — स्वयं ही पहले ही सर्व परिग्रहको छोड़ा है; और इसीलिये दूसरोंको भी, अन्तरंग छेदकी भाँति प्रथम ही सर्व परिग्रह छोड़ने योग्य है, क्योंकि वह (परिग्रह) अन्तरंग छेदके बिना नहीं होता ।
४०२प्रवचनसार[ भगवानश्रीकुंदकुंद-
१अनैकांतिक माना गया है, वैसा उपधि – परिग्रहका नहीं है । परिग्रह सर्वथा अशुद्धोपयोगके बिना
१. अनैकान्तिक = अनिश्चित; नियमरूप न हो; ऐकांतिक न हो ।
२. ऐकान्तिक = निश्चित; अवश्यंभावी; नियमरूप ।