न खलु बहिरंसंगद्भावे तुषसद्भावे तण्डुलगताशुद्धत्वस्येवाशुद्धोपयोगरूप- स्यान्तरंगच्छेदस्य प्रतिषेधः, तद्भावे च न शुद्धोपयोगमूलस्य कैवल्यस्योपलम्भः । अतोऽशुद्धोप- निरवद्याहारादिसहकारिकारणं ग्राह्यमिति पुनरप्यपवादविशेषव्याख्यानमुख्यत्वेन ‘उवयरणं जिणमग्गे’ इत्याद्येकादशगाथा भवन्ति । अत्र टीकायां गाथाचतुष्टयं नास्ति । एवं मूलसूत्राभिप्रायेण त्रिंशद्गाथाभिः, टीकापेक्षया पुनर्द्वादशगाथाभिः द्वितीयान्तराधिकारे समुदायपातनिका । तथाहि — अथ भावशुद्धि- पूर्वकबहिरङ्गपरिग्रहपरित्यागे कृते सति अभ्यन्तरपरिग्रहपरित्यागः कृत एव भवतीति निर्दिशति – ण हि णिरवेक्खो चागो न हि निरपेक्षस्त्यागः यदि चेत्, परिग्रहत्यागः सर्वथा निरपेक्षो न भवति किंतु किमपि वस्त्रपात्रादिकं ग्राह्यमिति भवता भण्यते, तर्हि हे शिष्य ण हवदि भिक्खुस्स आसयविसुद्धी न भवति भिक्षोराशयविशुद्धिः, तदा सापेक्षपरिणामे सति भिक्षोस्तपोधनस्य चित्तशुद्धिर्न भवति । अविसुद्धस्य हि चित्ते शुद्धात्मभावनारूपशुद्धिरहितस्य तपोधनस्य चित्ते मनसि हि स्फुटं कहं तु कम्मक्खओ विहिदो कथं तु कर्मक्षयो विहितः उचितो, न कथमपि । अनेनैतदुक्तं भवति — यथा बहिरङ्गतुषसद्भावे सति तण्डुलस्याभ्यन्तरशुद्धिं कर्तुं नायाति तथा विद्यमाने वा बहिरङ्गपरि- ग्रहाभिलाषे सति निर्मलशुद्धात्मानुभूतिरूपां चित्तशुद्धिं कर्तुं नायाति । यदि पुनर्विशिष्टवैराग्य-
अब, इस उपधि (परिग्रह) का निषेध वह अंतरंग छेदका ही निषेध है, ऐसा उपदेश करते हैं : —
अन्वयार्थ : — [निरपेक्षः त्यागः न हि ] यदि निरपेक्ष (किसी भी वस्तुकी अपेक्षारहित) त्याग न हो तो [भिक्षोः ] भिक्षुके [आशयविशुद्धिः ] भावकी विशुद्धि [न भवति ] नहीं होती; [च ] और [चित्ते अविशुद्धस्य ] जो भावमें अविशुद्ध है उसके [कर्मक्षयः ] कर्मक्षय [कथं नु ] कैसे [विहितः ] हो सकता है ?।।२२०।।
टीका : — जैसे छिलकेके सद्भावमें चावलोंमे पाई जानेवाली (रक्ततारूप) अशुद्धताका त्याग (-नाश, अभाव) नहीं होता, उसीप्रकार बहिरंग संगके सद्भावमें
ने भावमां अविशुद्धने क्षय कर्मनो कइ रीत बने? २२०.