कथं तस्मिन्नास्ति मूर्च्छा आरम्भो वा असंयमस्तस्य ।
तथा परद्रव्ये रतः कथमात्मानं प्रसाधयति ।२२१।।
उपधिसद्भावे हि ममत्वपरिणामलक्षणाया मूर्च्छायास्तद्विषयकर्मप्रक्रमपरिणामलक्षण-
स्यारम्भस्य शुद्धात्मरूपहिंसनपरिणामलक्षणस्यासंयमस्य वावश्यम्भावित्वात्तथोपधिद्वितीयस्य पर-
द्रव्यरतत्वेन शुद्धात्मद्रव्यप्रसाधकत्वाभावाच्च ऐकान्तिकान्तरंगच्छेदत्वमुपधेरवधार्यत एव । इदमत्र
तात्पर्यमेवंविधत्वमुपधेरवधार्य स सर्वथा संन्यस्तव्यः ।।२२१।।
लक्षणप्राणविनाशरूपो परजीवप्राणविनाशरूपो वा नियतं निश्चितं प्राणारम्भः प्राणवधो विद्यते, न केवलं
प्राणारम्भः, विक्खेवो तस्स चित्तम्मि अविक्षिप्तचित्तपरमयोगरहितस्य सपरिग्रहपुरुषस्य विक्षेपस्तस्य विद्यते
चित्ते मनसीति । इति द्वितीयगाथा । गेण्हइ स्वशुद्धात्मग्रहणशून्यः सन् गृह्णाति किमपि बहिर्द्रव्यं; विधुणइ
कर्मधूलिं विहाय बहिरङ्गधूलिं विधूनोति विनाशयति; धोवइ निर्मलपरमात्मतत्त्वमलजनकरागादिमलं
विहाय बहिरङ्गमलं धौति प्रक्षालयति; सोसेइ जदं तु आदवे खित्ता निर्विकल्पध्यानातपेन संसारनदी-
शोषणमकुर्वन् शोषयति शुष्कं करोति यतं तु यत्नपरं तु यथा भवति । किं कृत्वा । आतपे निक्षिप्य ।
किं तत् । पत्तं व चेलखंडं पात्रं वस्त्रखण्डं वा । बिभेदि निर्भयशुद्धात्मतत्त्वभावनाशून्यः सन् बिभेति भयं
करोति । कस्मात्सकाशात् । परदो य परतश्चौरादेः । पालयदि परमात्मभावनां न पालयन्न रक्षन्परद्रव्यं
किमपि पालयतीति तृतीयगाथा ।।“१७ – १९।। अथ सपरिग्रहस्य नियमेन चित्तशुद्धिर्नश्यतीति
विस्तरेणाख्याति — किध तम्हि णत्थि मुच्छा परद्रव्यममत्वरहितचिच्चमत्कारपरिणतेर्विसदृशा मूर्च्छा कथं
४०६प्रवचनसार[ भगवानश्रीकुंदकुंद-
अन्वयार्थ : — [तस्मिन् ] उपधिके सद्भावमें [तस्य ] उस (भिक्षु) के [मूर्च्छा ]
मूर्छा, [आरम्भः ] आरंभ [वा ] या [असंयमः ] असंयम [नास्ति ] न हो [कथं ] यह कैसे
हो सकता है ? (कदापि नहीं हो सकता), [तथा ] तथा [परद्रव्ये रतः ] जो परद्रव्यमें रत हो
वह [आत्मानं ] आत्माको [कथं ] कैसे [प्रसाधयति ] साध सकता है ? ।।२२१।।
टीका : — उपधिके सद्भावमें, (१) ममत्व – परिणाम जिसका लक्षण है ऐसी मूर्छा,
(२) उपधि संबंधी १कर्मप्रक्रमके परिणाम जिसका लक्षण है ऐसा आरम्भ, अथवा (३)
शुद्धात्मस्वरूपकी हिंसारूप परिणाम जिसका लक्षण है ऐसा असंयम अवश्यमेव होता ही है;
तथा उपधि जिसका द्वितीय हो (अर्थात् आत्मासे अन्य ऐसा परिग्रह जिसने ग्रहण किया हो)
उसके परद्रव्यमें रतपना ( – लीनता) होनेके कारण शुद्धात्मद्रव्यकी साधकताका अभाव होता
है; इससे उपधिके ऐकान्तिक अन्तरंग छेदपना निश्चित होता ही है ।
यहाँ यह तात्पर्य है कि — ‘उपधि ऐसी है, (परिग्रह वह अन्तरंग छेद ही है ), ऐसा
निश्चित करके उसे सर्वथा छोड़ना चाहिये ।।२२१।।
१. कर्मप्रक्रम = काममें युक्त होना; कामकी व्यवस्था ।