अथ कस्यचित्क्वचित्कदाचित्कथंचित्क श्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशति —
छेदो जेण ण विज्जदि गहणविसग्गेसु सेवमाणस्स ।
समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता ।।२२२।।
छेदो येन न विद्यते ग्रहणविसर्गेषु सेवमानस्य ।
श्रमणस्तेनेह वर्ततां कालं क्षेत्रं विज्ञाय ।।२२२।।
आत्मद्रव्यस्य द्वितीयपुद्गलद्रव्याभावात्सर्व एवोपधिः प्रतिषिद्ध इत्युत्सर्गः । अयं तु
नास्ति, अपि त्वस्त्येव । क्व । तस्मिन् परिग्रहाकाङ्क्षितपुरुषे । आरंभो वा मनोवचनकायक्रियारहित-
परमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति, किन्त्वस्त्येव; असंजमो तस्स शुद्धात्मानुभूतिविलक्षणा-
संयमो वा कथं नास्ति, किन्त्वस्त्येव तस्य सपरिग्रहस्य । तध परदव्वम्मि रदो तथैव निजात्मद्रव्यात्परद्रव्ये
रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति, न कथमपीति ।।२२१।। एवं
श्वेताम्बरमतानुसारिशिष्यसम्बोधनार्थं निर्ग्रन्थमोक्षमार्गस्थापनमुख्यत्वेन प्रथमस्थले गाथापञ्चकं गतम् ।
अथ कालापेक्षया परमोपेक्षासंयमशक्त्यभावे सत्याहारसंयमशौचज्ञानोपकरणादिकं किमपि
ग्राह्यमित्यपवादमुपदिशति — छेदो जेण ण विज्जदि छेदो येन न विद्यते । येनोपकरणेन शुद्धोपयोग-
लक्षणसंयमस्य छेदो विनाशो न विद्यते । कयोः । गहणविसग्गेसु ग्रहणविसर्गयोः । यस्योप-
करणस्यान्यवस्तुनो वा ग्रहणे स्वीकारे विसर्जने त्यागे । किं कुर्वतः तपोधनस्य । सेवमाणस्स तदुपकरणं
सेवमानस्य । समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता श्रमणस्तेनोपकरणेनेह लोके वर्तताम् । किं कृत्वा ।
कालं क्षेत्रं च विज्ञायेति । अयमत्र भावार्थः – कालं पञ्चमकालं शीतोष्णादिकालं वा, क्षेत्रं भरतक्षेत्रं
मनुषजाङ्गलादिक्षेत्रं वा, विज्ञाय येनोपकरणेन स्वसंवित्तिलक्षणभावसंयमस्य बहिरङ्गद्रव्यसंयमस्य वा
छेदो न भवति तेन वर्तत इति ।।२२२।। अथ पूर्वसूत्रोदितोपकरणस्वरूपं दर्शयति — अप्पडिकुट्ठं उवधिं
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४०७
अब, ‘किसीके कहीं कभी किसी प्रकार कोई उपधि अनिषिद्ध भी है’ ऐसे अपवादका
उपदेश करते हैं : —
अन्वयार्थ : — [ग्रहणविसर्गेषु ] जिस उपधिके (आहार – नीहारादिके) ग्रहण-
विसर्जनमें सेवन करनेमें [येन ] जिससे [सेवमानस्य ] सेवन करनेवालेके [छेदः ] छेद [न
विद्यते ] नहीं होता, [तेन ] उस उपधियुक्त, [कालं क्षेत्रं विज्ञाय ] काल क्षेत्रको जानकर,
[इह ] इस लोकमें [श्रमणः ] श्रमण [वर्तताम् ] भले वर्ते ।।२२२।।
टीका : — आत्मद्रव्यके द्वितीय पुद्गलद्रव्यका अभाव होनेसे समस्त ही उपधि निषिद्ध
ग्रहणे विसर्गे सेवतां नहि छेद जेथी थाय छे,
ते उपधि सह वर्तो भले मुनि काळक्षेत्र विजाणीने. २२२.