तत्परिणतपुरुषविनीतताभिप्रायप्रवर्तकचित्तपुद्गलाश्च भवन्ति । इदमत्र तात्पर्यं, कायवद्वचन-
मनसी अपि न वस्तुधर्मः ।।२२५।।
वण्णेसु तीसु एक्को कल्लाणंगो तवोसहो वयसा ।
सुमुहोे कुच्छारहिदो लिंगग्गहणे हवदि जोग्गो ।।“२९।।
वण्णेसु तीसु एक्को वर्णेषु त्रिष्वेकः ब्राह्मणक्षत्रियवैश्यवर्णेष्वेकः । कल्लाणंगो कल्याणाङ्ग
आरोग्यः । तवोसहो वयसा तपःसहः तपःक्षमः । केन । अतिवृद्धबालत्वरहितवयसा । सुमुहो
निर्विकाराभ्यन्तरपरमचैतन्यपरिणतिविशुद्धिज्ञापकं गमकं बहिरङ्गनिर्विकारं मुखं यस्य, मुखावयवभङ्ग-
रहितं वा, स भवति सुमुखः । कुच्छारहिदो लोकमध्ये दुराचाराद्यपवादरहितः । लिंगग्गहणे हवदि जोग्गो
एवंगुणविशिष्टपुरुषो जिनदीक्षाग्रहणे योग्यो भवति । यथायोग्यं सच्छूद्राद्यपि ।।“२९।। अथ
निश्चयनयाभिप्रायं कथयति —
जो रयणत्तयणासो सो भंगो जिणवरेहिं णिद्दिट्ठो ।
सेसं भंगेण पुणो ण होदि सल्लेहणाअरिहो ।।“३०।।
जो रयणत्तयणासो सो भंगो जिणवरेहिं णिद्दिट्ठो यो रत्नत्रयनाशः स भङ्गो जिनवरैर्निर्दिष्टः ।
विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यक्श्रद्धाज्ञानानुष्ठानरूपो योऽसौ निश्चयरत्नत्रयस्वभावस्तस्य
विनाशः स एव निश्चयेन नाशो भङ्गो जिनवरैर्निर्दिष्टः । सेसं भंगेण पुणो शेषभङ्गेन पुनः
शेषखण्डमुण्डवातवृषणादिभङ्गेन ण होदि सल्लेहणाअरिहो न भवति सल्लेखनार्हः । लोकदुगुञ्छाभयेन
निर्ग्रन्थरूपयोग्यो न भवति । कौपीनग्रहणेन तु भावनायोग्यो भवतीत्यभिप्रायः ।।“३०।। एवं
स्त्रीनिर्वाणनिराकरणव्याख्यानमुख्यत्वेनैकादशगाथाभिस्तृतीयं स्थलं गतम् । अथ पूर्वोक्तस्योपकरणरूपा-
पवादव्याख्यानस्य विशेषविवरणं करोति — इदि भणिदं इति भणितं कथितम् । किम् । उवयरणं
उपकरणम् । क्व । जिणमग्गे जिनोक्तमोक्षमार्गे । किमुपकरणम् । लिंगं शरीराकारपुद्गलपिण्डरूपं
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४१५
करनेवाले चित्रपुद्गल । (अपवादमार्गमें जिस उपकरणभूत उपधिका निषेध नहीं है उसके
उपरोक्त चार भेद हैं ।)
यहाँ ऐसा तात्पर्य है कि कायकी भाँति वचन और मन भी वस्तुधर्म नहीं है ।
भावार्थ : — जिस श्रमणकी श्रामण्यपर्यायके सहकारी कारणभूत, सर्व कृत्रिमताओंसे
रहित यथाजातरूपके सम्मुख वृत्ति जाये, उसे कायका परिग्रह है; जिस श्रमणकी गुरु – उपदेशके
श्रवणमें वृत्ति रुके, उसे वचनपुद्गलोंका परिग्रह है; जिस श्रमणकी सूत्राध्ययनमें वृत्ति रुके
उसके सूत्रपुद्गलोंका परिग्रह है; और जिस श्रमणके योग्य पुरुषके विनयरूप परिणाम हों उसके
मनके पुद्गलोंका परिग्रह है । यद्यपि वह परिग्रह उपकरणभूत हैं, इसलिये अपवादमार्गमें उनका
निषेध नहीं है, तथापि वे वस्तुधर्म नहीं हैं ।।२२५।।