भणित इत्यध्याहारः । स कः । उववादो व्यवहारनयेनोत्पादः । किंविशिष्टः । संतत्तियं सान्ततिको निरन्तरः । केषां संबन्धी । णिगोदाणं निश्चयेन शुद्धबुद्धैकस्वभावानामनादिनिधनत्वेनोत्पादव्यय- रहितानामपि निगोदजीवानाम् । पुनरपि कथंभूतानाम्। तज्जादीणं तद्वर्णतद्गन्धतद्रसतत्स्पर्शत्वेन तज्जातीनां मांसजातीनाम् । कास्वधिकरणभूतासु । मंसपेसीसु मांसपेशीषु मांसखण्डेषु । कथंभूतासु । पक्केसु अ आमेसु अ विपच्चमाणासु पक्वासु चामासु च विपच्यमानास्विति प्रथमगाथा । जो पक्कमपक्कं वा यः कर्ता पक्वामपक्वां वा पेसीं पेशीं खण्डम् । कस्य । मंसस्स मांसस्य । खादि निजशुद्धात्मभावनोत्पन्न- सुखसुधाहारमलभमानः सन् खादति भक्षति, फासदि वा स्पर्शति वा, सो किल णिहणदि पिंडं स कर्ता किल लोकोक्त्या परमागमोक्त्या वा निहन्ति पिण्डम् । केषाम् । जीवाणं जीवानाम् । कति- संख्योपेतानाम् । अणेगकोडीणं अनेककोटीनामिति । अत्रेदमुक्तं भवति – शेषकन्दमूलाद्याहाराः केचनानन्त- काया अप्यग्निपक्वाः सन्तः प्रासुका भवन्ति, मांसं पुनरनन्तकायं भवति तथैव चाग्निपक्वमपक्वं पच्यमानं वा प्रासुकं न भवति । तेन कारणेनाभोज्यमभक्षणीयमिति ।।“३२ – ३३।। अथ पाणिगताहारः प्रासुकोऽप्यन्यस्मै न दातव्य इत्युपादिशति —
अन्वयार्थ : — [बालः वा ] बाल, [वृद्धः वा ] वृद्ध [श्रमाभिहतः वा ] १श्रांत [पुनः ग्लानः वा ] या २ग्लान श्रमण [मूलच्छेदः ] मूलका छेद [यथा न भवति ] जैसा न हो उसप्रकारसे [स्वयोग्यां ] अपने योग्य [चर्यां चरतु ] आचरण आचरो ।।२३०।। १. श्रान्त = श्रमित; परिश्रमी थका; हुआ । २. ग्लान = व्याधिग्रस्त; रोगी; दुर्बल ।
चर्या चरो निजयोग्य, जे रीत मूळछेद न थाय छे. २३०.