मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमप्याचरणमाचरणीय-
मित्युत्सर्गसापेक्षोऽपवादः । अतः सर्वथोत्सर्गापवादमैत्र्या सौस्थित्यमाचरणस्य विधेयम् ।।२३०।।
सकाशादन्यद्बाह्याभ्यन्तरपरिग्रहरूपं सर्वं त्याज्यमित्युत्सर्गो निश्चयनयः सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारित्रं शुद्धोपयोग इति यावदेकार्थः । तत्रासमर्थः पुरुषः शुद्धात्मभावनासहकारिभूतं किमपि प्रासुकाहारज्ञानोपकरणादिकं गृह्णातीत्यपवादो व्यवहारनय एकदेशपरित्यागः तथाचापहृतसंयमः सरागचारित्रं शुभोपयोग इति यावदेकार्थः । तत्र शुद्धात्मभावनानिमित्तं सर्वत्यागलक्षणोत्सर्गे दुर्धरानुष्ठाने प्रवर्तमानस्तपोधनः शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथा छेदो विनाशो न भवति तथा किमपि प्रासुकाहारादिकं गृह्णातीत्यपवादसापेक्ष उत्सर्गो भण्यते । यदा पुनरपवादलक्षणेऽपहृतसंयमे प्रवर्तते तदापि शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथोच्छेदो विनाशो न भवति तथोत्सर्गसापेक्षत्वेन प्रवर्तते । तथा प्रवर्तते इति कोऽर्थः । यथा संयमविराधना न भवति तथेत्युत्सर्गसापेक्षोऽपवाद इत्यभिप्रायः ।।२३०।। अथापवादनिरपेक्षमुत्सर्गं तथैवोत्सर्गनिरपेक्षमपवादं च साधन होनेसे मूलभूत है उसका — छेद जैसे न हो उसप्रकारसे बाल – वृद्ध – श्रांत – ग्लान ऐसे अपने योग्य मृदु आचरण आचरते हुए, (उसके) संयमका — जो कि शुद्धात्मतत्वका साधन होनेसे मूलभूत है उसका (भी) — छेद जैसे न हो उसप्रकारसे संयत ऐसा अपने योग्य अतिकर्कश आचरण भी आचरना; इसप्रकार उत्सर्गसापेक्ष अपवाद है ।
इससे (ऐसा कहा है कि) सर्वथा (सर्वप्रकारसे) उत्सर्ग और अपवादकी मैत्री द्वारा आचरणका सुस्थितपना करना चाहिये ।।२३०।।
अब, उत्सर्ग और अपवादके विरोध (-अमैत्री) से आचरणका १दुःस्थितपना होता है, ऐसा उपदेश करते हैं : — १. दुःस्थित = खराब स्थितिवाला; नष्ट ।